________________
आमुखम् भूयान् पाठभेदो विलोक्यते, एतच्च तत्र तत्र निर्दिष्टेभ्यष्टिप्पणेभ्योऽवसेयम् , दृश्यतां पृ० १२७ टि. २६, पृ० १४० टि० १, पृ० १५० टि० १६, पृ० २३६ टि० ३, ८, पृ० २४१ टि० १३ इत्यादि । __ सम्प्रति या पाठपरंपरा सूत्रकृताङ्गस्य हस्तलिखितादर्शेषूपलभ्यते सा वृत्तिकृदनुसृतपाठपरंपरया प्रायशः संवदति, क्वचित् क्वचिच्चूर्णिकृदनुसृताः पाठा अप्युपलभ्यन्ते तत्र। खं १ आदर्थे चूर्णिकृदनुसृता बहवः पाठा उपलभ्यन्ते। अस्माभिः वृत्त्यध्येतॄणां सौकर्याय वृत्तिकृदनुसृताः पाठाःप्रामुख्येन मूले उपन्यस्ताः, अपरे पाठभेदा अधस्ताट्टिप्पणेषु दर्शिताः, क्वचित् क्वचिच्चूर्णिकृदनुसृता अपि पाठा मूले उपन्यस्ता इति ध्येयम् _योपनीयसंवे दिगम्बरसंघे वा सूत्रकृताङ्गस्य काचित् किञ्चिद् विभिन्ना पाठपरंपरा आसीदित्यपि प्रतीयते दृश्यतां १५० टि० २।
सूत्रकृताङ्गस्यास्य संशोधने सूत्रकृताङ्गचूर्णि-सूत्रकृताङ्गवृत्त्यावश्यकचूर्णादयोऽनेके ग्रन्था उपयुक्ताः, तेभ्यश्चानेके पाठाष्टिप्पणेषु तत्र तत्रोद्धताः, अत्रोद्धतेषु पाठेषु मुद्रितग्रन्थेभ्यो यत्र भेदो दृश्यते तत्र व्यामोहो न विधेयः, यत एते भिन्ना विशिष्टाः पाठा आ० प्र० मुनिराजश्री पुण्यविजयजीमहोदयसंगृहीतप्राचीन तरहस्तलिखितग्रन्थस्थपाठभेदानुसारेण तत्र तत्रास्माभिर्निर्दिष्टाः। उपलब्धपाठस्थाने ये पाठाः शुद्धाः शुद्धतरा वा अस्माभिः संभावितास्ते पाठाः ( ) एतादृशकोष्ठकमध्येऽत्र निवेशिताः। ये तु पाठा 'आवश्यकाः' इति विभाव्य अस्माभिः संपूरितास्ते [ ] एतादृशकोष्ठकमध्ये एतद्न्थसशोधनावसरेऽस्मिन् ग्रन्थे निवेशिता अस्माभिः।
परिशिष्टानि-अत्र त्रीणि परिशिष्टानि संयोजितानि । तत्र. तृतीये परिशिष्ट तेषु तेषु स्थलेषु कतिपयानि विशिष्टानि टिप्पणानि वर्तन्ते। तत्र च जैन-बौद्ध-उपनिषद्-महाभारत-भागवत-वायुपुराण. मनस्मत्यादिभिर्बहभिम्रन्थैः सह तत्तदंशानां विस्तरेण तुलना दर्शिता, क्वचित् परस्परं तुलनापि दशिता, द्वितीयवैतालीयाद्यध्ययनेषु मुद्रितपाठापेक्षया ये पाठाः छन्दोऽपेक्षया समीचीनतरा अस्मद्दष्टिपथमायातास्तेऽपि तत्र तत्र दर्शिताः, अस्माकमनवधानादिना अशुद्धानां मुद्रितानां केषाञ्चित् पाठानां स्थाने शुद्धपाठा अपि तत्र तत्र दर्शिताः, अतः पिपठिषुभिर्बहुविषयगर्भितं सम्यगिर्द तृतीयं परिशिष्टमुपयोज्यम् ।
शुद्धि-वृद्धिपत्रकमपि सम्यगुपयुज्यैवाध्येतव्योऽयं ग्रन्थः।। व्याख्याः -सूत्रकृताङ्गस्य सम्प्रति उपलभ्यमानासु व्याख्यासु चतुर्दशपूर्वविदा भगवता भद्रबाहुस्वामिना प्राकृतभाषायां विरचिता नियुक्ति प्राचीनतमा व्याख्या।
ततः परं सूत्रकृताङ्गचूर्णिरुपलभ्यते, संस्कृतमिश्रितप्राकृतभाषानिबद्धा इयम् अतिप्राचीना सूत्रनियुक्तिव्याख्या। 'ऋषभदेवजी केसरीमलजी, रतलाम' इत्यनया संस्थया प्रकाशिता सूत्रकृताङ्गचूर्णिरतीव अशुद्धा, एतदपेक्षया मुनिराजश्रीपुण्यविजयजीमहोदयसंशोधिता' चूर्णिः सम्यक् शुद्धा; अस्माभिरियमुपयुक्तात्र टिप्पणादौ। अस्यां चूर्णी [पृ. १६] “अणुत्तर-नाण-दंसणधरो, एतेण एकत्वं णाण-दंसणाण ख्यापितं भवति" [२।४।२२] इत्युल्लेखो दृश्यते, तदनुसारेण चूर्णिकृतः सिद्धसेनदिवाकराचार्यमतानुयायिन इति प्रतिभाति । ७६० तमसूत्रस्य चूर्णौ “अत्र दुसगणिक्षमाश्रमणशिष्यभदियाँचार्या ब्रुवते" [पृ० ४०५] इत्युल्लेखोऽपि दृश्यते । १. मूलाराधनावृत्तौ सूत्रकृतात उद्धृतः पाठो दृश्यते। अयं च मूलाराधनापन्थो यद्यपि दिगम्बरसंघे सम्प्रति बहुमतः, किन्तु तस्य रचयितारो व्याख्यातारो वा यापनीयसंघानुयायिन आसन्निति अस्माभिः संभाव्यते, दृश्यता स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणप्रस्तावना ॥ २. अस्याः केवलं प्रथमः श्रुतस्कन्धः Prakrit Text Society द्वारा प्रकाशितः। द्वितीयस्तु सम्प्रति हस्तलिखित एव ॥ ३. तुलना"भदियायरिओवएसेणं भिन्नरूवा एकका दससहेण संगिहीया भवन्ति"-अगस्त्यसिंह विरचिता दशवैकालिकचूर्णिः पृ० ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org