SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आमुखम् श्रमगसङ्घन विहितम्। द्वादशाङ्गस्य दृष्टिवादस्याध्ययनार्थ तु स्थूलभद्रादयो मुनयो नेपालदेशमार्गस्थस्य भद्रबाहुस्वामिनोऽन्तिकं गताः। सुधर्मस्वामिनः पश्चात् प्रथमोऽयं वाचनोद्धारः शास्त्रेषु श्रूयते ।' भगवतो महावीरस्वामिनो निर्वाणात् ८२७ वर्षेषु गतेषु पुनरपि द्वादशवार्षिकदुर्भिक्षवशात् साधूनां पूर्वाधीतं श्रुतज्ञानं खण्डखण्डीभूतम् , अतो दुर्भिक्षावसाने मथुरायाम् आर्यस्कन्दिलाचार्यसन्निधौ वलभ्यां च नागार्जुनाचार्यसन्निधौ पुनरपि श्रमणसङ्घन एकत्रीभूय कालिकश्रुतं संघटितम् । किन्तु परस्परं क्वचित् क्वचिद् वाचनाभेदः संजातः। द्वयोरपि आचार्ययोः ततः परं परस्परं मीलनं कदाचिदपि न जातमिति तथैव वाचनाभेदोऽवस्थितः। मथुरायां जाता वाचना माथुरी इति भण्यते, या तु वलभ्यां नागार्जुनाचार्यसन्निधौ वाचना प्रवृत्ता सा 'नागार्जुनीया' इति गीयते। माथुर-नागार्जुनीयवाचनयोर्मध्ये यः पाठभेदः संजातस्तस्य कतिपया उल्लेखा आचाराङ्गचूर्णिसूत्रकृताङ्गचूर्णि-शीलाचार्यविरचितवृत्ति-उत्तराध्ययनचूर्णि-दशवैकालिकचूर्णिषु दृश्यन्ते। चाराङ्गचूर्णी पञ्चदशकृत्वः शीलाचार्यविरचितवृत्तौ च दशकृत्वो नागार्जुनीयवाचनागतानां पाठभेदानां नामग्राहमुल्लेखो दृश्यते। सूत्रकृताङ्गस्य चूर्णौ त्रयोदशकृत्वः शीलाचार्यविरचितवृत्तौ तु चतुर्वेव स्थानेषु नागार्जुनीयवाचनागताः पाठभेदा निर्दिष्टाः। भगवतो महावीरस्वामिनो निर्वाणात् ९८० वर्षे वलभीपुरे देवर्धिगणिक्षमाश्रमणप्रमुखसंघेन आगमग्रन्थाः पुस्तकेषु लिखिताः। देवर्धिगणिक्षमाश्रमणाः माथुरसंघस्य युगप्रधानाचार्या माथुरवाचनानुयायिनश्च। अतः पुस्तकलेखनसमये माथुरी वाचना तैः प्रामुख्येनानुसृता इति साम्प्रतकालीना विद्वांसः संभावयन्ति। तेषामभिप्रायेण सम्प्रति प्रवर्तमाना आचाराङ्ग-सूत्रकृताङ्गादीनां बहूनामागमग्रन्थानां पाठपरम्परा माथुरी वाचनामनुसरति।। देवर्धिगणिक्षमाश्रमणप्रमुखसंवेन वलभीपुर्यो पुस्तकेषु लिखितायामपि आगमवाचनायां कालान्तरेण बहवः पाठभेदाः सञ्जाता इति संभाव्यते। यतः चूर्णिषु वृत्तिषु च तत्र तत्र बहवः पाठभेदा निर्दिष्टाः। किञ्च, आचाराङ्ग-सूत्रकृताङ्गचूर्णिकृतां समक्षं या पाठपरम्परा आसीत् ततोऽपि अनेकेषु स्थानेषु अल्पीयसा भूयसा वांशेन भिन्ना पाठपरम्परा वृत्तिकृतां शीलाचार्याणां समक्षमासीत् , अत एव शीलाचार्यैः “न च टीका(चूर्णि)संवाद्यकोऽप्यस्माभिरादर्शः समुपलब्धः" इत्यादिना स्वकीयं मानसिक कष्टं सूत्रकृताङ्गवृत्तौ [पृ० ३३६] स्पष्टमेवावेदितम् , दृश्यतां पृ० १८७ टि० ९। अत्र प्रथमे श्रुतस्कन्धे चूर्णिकृतां वृत्तिकृतां च समक्षं विद्यमानयोः पाठपरंपरयोः क्वचित् क्वचित् स्वल्पो भेदः। द्वितीयश्रुतस्कन्धे तु बहुषु स्थलेषु 1. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० ३० टि० १॥ २. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ.३०टि०२ पृ. ३१ टि०१॥३. दृश्यतामाचाराङ्गसूत्रे पृ०२१ टि. १,८, पृ० ३३ टि. १०, पृ० ३५ टि० १३, पृ० ४० टि० १२, पृ० ४६ टि. १, पृ० ४७ टि० २, पृ० ६० टि. १, पृ० ६३ टि० ११, पृ० ६४ टि. १, पृ० ६६ टि. १०, पृ० ६७ टि० ६, पृ. ६८ टि. १८, पृ० ८४ टि० ५, पृ० ९० टि० १०, पृ० ९४ टि० १०॥ ४. दृश्यतामाचाराङ्गसूत्रे पृ० २१ टि. १, ८, पृ० ३५ टि. १३, पृ० ४० टि० १२, पृ० ४६ टि० १, पृ. ४७ टि० २, पृ. ६. टि. १, पृ० ६३ टि० ११, पृ० ६६ टि. १०, पृ० ६७ टि० ६, पृ० ९० टि० १०॥ ५. दृश्यतामस्मिन् ग्रन्थे पृ० ११टि० १२, पृ० १६ टि० ७, पृ० २१ टि० १९, पृ० २२ टि० ८, पृ० १९१ टि० ८, पृ० १९४ टि.७, पृ० १९५टि०४, ९, पृ० २१२ टि०४.प्र. २४० टि. १७. २३. पृ० २४५ टि० १५, पृ० २५४ टि. १६॥ ६. दृश्यतामस्मिन् ग्रन्थे पृ० २१ टि० १९, पृ० २२ टि. ८, पृ० १९४ टि. ७, पृ० २१२ टि. ४॥ ७. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ. ३१ टि.३॥ ८. दृश्यतामाचाराङ्गसूत्रस्य प्रस्तावना पृ०४६-४७॥ ९. दृश्यतामाचारागसूत्रस्य प्रस्तावनायां पृ०३३३५, आमुखे पृ० ५८॥ १०. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० ३२ पं० १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy