________________
आमुखम् तृतीयेऽध्ययने चतुर्थ उद्देशके परप्रवादिनां मतेन नमिविदेहि-रामगुप्त-बाहुक-तारागणआसिलदेविल(असितदेवल १)-द्वीपायन-पाराशरादय ऋषयो यथा स्वेन स्वेनाचारेण मुक्तिं गतास्तथा वर्णितम् , एते चानेके ऋषयः 'इसिभासियाई (ऋषिभाषितानि)' इति ग्रन्थे जैनानामपि सम्मताः। 'सुखेन सुखं लभ्यते' इति बौद्धमतमपि वर्णितमस्मिन्नध्ययने। विस्तरार्थिभिस्तृतीये परिशिष्टे [पृ० ३६४-३६५] द्रष्टव्यम् , तथा प्रस्तावनायाम् [पृ० १५ टि० १-५] अपि विलोकनीयम्।
द्वादशेऽभ्ययने समोसरणे (समवसरणे) क्रियावादिनाम् १ अक्रियावादिना २ विनयवादिनाम् ३ अज्ञानवादिना ४ च स्वरूपं वर्णितम् , सापेक्षः क्रियावादश्च सम्यग्वादत्वेन दर्शितः। दृश्यतां तृतीये परिशिष्टे [पृ० ३६७ पं० २१], प्रस्तावनायां [पृ० २१ टि०१-३] च।
सप्तदशेऽध्ययने [द्वितीयश्रुतस्कन्धे प्रथमेऽध्ययने] पौण्डरीके तजीव-तच्छरीरवादिनां पञ्चमहाभूतवादिनाम् आत्मषष्ठपञ्चमहाभूतवादिनाम् ईश्वरकारणिकानां नियतिवादिनां च मतानि किञ्चिद्विस्तरेण वर्णितानि। गन्थान्तरैः सह तुलना तृतीये परिशिष्टे [पृ० ३६८-३६९] विलोकनीया।
द्वाविंशे [द्वितीयश्रुतस्कन्धे षष्ठे]ऽध्ययने आर्द्रकुमारस्य गोशालकादिभिः सह यो वादो जातस्तस्य वर्णनं वर्तते। अस्मिंश्च प्रसङ्गे गोशालक-बौद्ध भिक्षु-ब्रह्मप्रति-त्रिदण्डि-हस्तितापसानां मतानि वर्णितानि।
त्रयोविंशे [द्वितीयश्रुतस्कन्वे सप्तमे]ऽध्ययने भगवतो गौतमस्वामिनः श्रीपार्श्वनाथसन्तानीयेन उदकेन पेढालपुत्रेण सह य आलापो जातस्तस्य वर्णनं वर्तते।
इत्येवं विविधाः स्व-परसमयविचाराः सूत्रकृताङ्गे दृश्यन्ते।
पाउपरम्परा-भगवतो महावीरस्य शिष्या 'गौतमादयः सर्वेऽपि गणधरा द्वादशाङ्गी प्रेणीतवन्तः। भगवतो महावीरस्य एकादश गुणधराः, गणास्तु नवैव, इति द्वादशाझ्या नव वाचना बभूवुः। नवस्वपि वाचनासु द्वादशाङ्गी अर्थत एकरूपैवासीदित्यत्र न मतभेदः। किन्तु सर्वा अपि वाचनाः सूत्रत एकरूपा न वेत्यत्र विप्रतिपत्तिः। 'अर्थत एकरूपत्वेऽपि सूत्रतो नवसु वाचनासु नवविधा द्वादशाङ्गी अभूत्' इत्येके। “एवं ता भगवता अत्थो कहितो। ताहे भगवंतो एगपासे सुत्तं करेंति, तं अक्खरेहिं पदेहि वंजणेहिं सम" [आवश्यकचूर्णि पृ० ३३७] इति आवश्यकचूर्ण्यनुसारेण तु सूत्रतोऽपि सर्वेषां गणधराणां द्वादशाङ्गी एकरूपाऽऽसीदिति प्रतीयते।
पञ्चमगणधरस्य भगवतः सुधर्मस्वामिनो दीर्घायुष्कत्वात् सर्वेऽप्यन्ये गणधराः स्व-स्वशिष्यगण तस्मै समर्प्य निर्वाणमासादयामासुः। अतो भगवतो महावीरस्य शासने शिष्यपरम्परायां प्रवर्तमाना द्वादशाङ्गी सुधर्मस्वामिद्वारैव प्रवृत्ता, अतोऽस्माकं वाचना सुधर्मस्वामिसत्का इत्यत्र न कोऽपि विवादः।
भगवतो महावीरात् १६० वर्षेषु गतेषु चतुर्दशपूर्वधरस्य भगवतो भद्रबाहुस्वामिनः समये द्वादशवर्षीयदुर्भिक्षवशाद् द्वादशाङ्गया अनेकेंऽशा विस्मृता साधुभिः, अतः पाटलिपुत्रे श्रमणसङ्घो मीलितः, तत्र च यस्य समीपे यदङ्गाध्ययनोद्देशकाद्यविस्मृतमासीत् तत् तत आदाय एकादशाङ्गयाः संघटनं
१. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० २९ ॥ २. भगवतो महावीरस्य सकाशादिन्द्रभूतिना गौतमस्वामिना अर्थमधिगम्य द्वादशाशी प्रणीता, तदनन्तरं गौतमस्वामिना पञ्चमगणधराय भगवते सुधर्मस्वामिने व्याख्याय अभिहिता इत्यपि धवला-जयधवलादिषु दिगम्बराणां ग्रन्थेषु विलोक्यते । दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० २९ टि० २॥ ३. दृश्यतामस्य सुत्रकृताङ्गस्य प्रस्तावना पृ. २८ पं० ८ ॥ ४. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० २८ टि० १॥ ५. “एवं तावद् भगवता अर्थः कथितः। तदा भगवन्तः एकपार्श्वे सूत्रं कुर्वन्ति, तत् अक्षरैः पदैव्यंजनैः समम् ॥" ६. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० २९ पं० ७-१०; तथा आचारागसूत्रस्य पञ्चमं परिशिष्टं पृ० ४०१॥ ७. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० २८ टि० २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org