________________
४८
आमुखम् विविधाः 'पद'शब्दस्य व्याख्या दृश्यन्ते। एवं च ३६००० पदानीति यत् सूत्रकृताङ्गस्य परिमाणं तत् तावच्छास्त्रीय परिमाणम् । ___ सम्प्रति तु ३२ अक्षराणामेकोऽनुष्टुप् श्लोक इति गणनयानेकेषु हस्तलिखितादर्शेषु २१०० श्लोकाः प्रमाणं लिखितं दृश्यते, क्वचित् किञ्चिदधिकमपि दृश्यते, दृश्यतां पृ० २५८ टि० ३, ६, ९।
महापरिज्ञाख्यसप्तमाध्ययनरहितस्य आचाराङ्गप्रथमश्रुतस्कन्धस्य ८०० श्लोकाः प्रमाणमाचारागसूत्रस्य संदी० प्रतौ निर्दिष्टम् , दृश्यतामाचाराङ्गसूत्रे पृ० ४१८ पं० ५, तथा तस्य आमुखे पृ० ५८। सप्तोद्देशकात्मकमहापरिक्षाध्ययनश्लोकसंख्यामीलने तु एतत् प्रमाणमधिकमपि सञ्जायते । एवं च सूत्रकृताङ्गनियुक्तौ “आयाराओ दुगुणमंग” इति यदभिहितं तत् सम्प्रति उपलभ्यमानेन सूत्रकृताङ्गपरिमाणेनापि सुष्ठु संवदत्येव । - रचनाशैली-सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे 'आयाणिज 'पर्यन्तानि पञ्चदशाध्ययनानि पद्यनिबद्धानि, षोडशं गाथाध्ययनं यद्यपि सम्प्रति गद्यरूपं विलोक्यते तथापि 'तत् सामुद्रेण छन्दसा निबद्धम्' इति नियुक्त्यादौ वर्णितम् , पूर्वस्मिन् काले कथञ्चिच्च तद् गीयमानमभूदिति सूत्रकृताङ्गचूादौ वर्णित । “पद्यं गाधासोलसगादि" इत्यपि सूत्रकृताङ्गचूर्णौ [पृ० ४] अभिहितम् ।
द्वितीये श्रुतस्कन्धे पञ्चम-षष्ठे अध्ययने पद्यनिबद्धे, अवशिष्टानि पञ्चाप्यध्ययनानि गद्यनिबद्धानि, केवलं तृतीयाध्ययनान्ते चत्वारि पद्यानि वर्तन्ते।
विषयः-चरणकरणानुयोगः १, धर्मकथानुयोगः २, गणितानुयोगः ३, द्रव्यानुयोगः ४ इति चतुर्विधेष्वनुयोगेषु इह चरण-करणानुयोगेनाधिकार इति सूत्रकृताङ्गचूर्णिकृतामभिप्रायः, इह द्रव्यानुयोगेनाधिकार इति तु वृत्तिकृतां शीलाचार्याणामभिप्रायः। उभयमप्येतदापेक्षिकम् । केषुचिदध्ययनेषु स्व-परसिद्धान्तानां वर्णनमत्र वर्तते, तदपेक्षया द्रव्यानुयोगोऽप्यत्र वर्तते । बहुष्वध्ययनेषु चारित्रशुद्धेर्विचारोऽत्र मुख्यतया वर्तते, तदपेक्षया चरणकरणानुयोगेनाऽत्राधिकार इत्यपि संगच्छते। __सामान्यतोऽस्य सूत्रस्य विषयः समवायाङ्गादिषु ग्रन्थेषु वर्णितः, विशेषतो विषयानुक्रमे विस्तरेण विलोकनीयः। तथापि किञ्चिद् विशिष्याभिधीयते-प्रथमेऽध्ययने पञ्चमहाभूतवादः, एकात्मवादः (आत्माद्वैतवादः), तजीव-तच्छरीरवादः, अकारकवादः आत्मषष्ठ[पञ्चमहाभूतवादः, अफलवादिनः (क्षणिकवादिनो बौद्धाः), नियतिवादः, आज्ञानिकगादः, ज्ञानवादः, भिक्षुसमये (बौद्धमते) अविज्ञोपचितं १ परिज्ञोपचितम् २ ईयापथं ३ स्वप्नान्तिकं ४ च कर्म चयं न गच्छतीति वादः, 'ईश्वरेण कृतमिदं जगत्, प्रधानेन कृतमिदं जगत्' इत्यादयो विविधा जगत्कर्तृत्ववादाः, इत्येवं बहवः परप्रवादाः तेषां च दोषा उपदर्शिताः।
तथाविधायामापदि पुत्रमपि व्यापाद्य तन्मांसभक्षणेऽपि न दोष इति [सू० ५५] बौद्धमतं !दी तदपि दूषितम् [सू० ५६]।
एषु केचिद् वादाः पालित्रिपिटकान्तर्गतेषु दीघनिकाय-मज्झिमनिकायादिबौद्धग्रन्थेषु मनुस्मृत्यादिषु च वैदिकग्रन्थेष्वपि वर्णिता विलोक्यन्ते । विस्तरेण जिज्ञासुभिरस्य सूत्रकृताङ्गस्य तृतीये परिशिष्टे तत्तत्स्थलसत्कं टिप्पणं विलोकनीयम् , प्रस्तावनायापि तत्र तत्र पृ० ७ टि. ४ पृ० ८ टि० २,७, पृ० ११ टि० ३ इत्यादौ विलोकनीयम् । १, २. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ. २१ टि० २। बौद्धेष्वपि गाथात्मको ग्रन्थविभाग आसीत् , दृश्यतामाचाराङ्गसूत्रस्य परिशिष्टम् पृ० ४०२ पं० ११, १४ । बौद्धाचार्येण असङ्गेन श्रावकभूमौ वर्णितं गाथालक्षणं हेमचन्द्राचार्यविरचितछन्दोनुशासननिर्दिष्टं च गाथालक्षणमस्य सूत्रकृताङ्गस्य प्रस्तावनायां [पृ. २१ टि० १] विलोकनीयम् ॥ ३. दृश्यतामस्थ सूत्रकृताङ्गस्य प्रस्तावना पृ० २६ टि० २॥ ४. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० ११ टि० २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org