________________
सूयगडंगसुत्त दमीषाम् आचार-सूत्रकृत-स्थानादीनां द्वादशानामागमग्रन्थानाम् 'अङ्ग'सूत्रत्वेन व्यवहारः प्रवर्तते यथा-१ आचारागसूत्रम्, २ सूत्रकृताङ्गसूत्रम्, ३ स्थानाङ्गसूत्रमित्यादि। एवं चेदं सूत्रकृताङ्गसूत्रं द्वादशाङ्गयां द्वितीयमङ्गसूत्रम् ।
नाम-चतुर्दशपूर्वधरभद्रबाहुस्वामिविरचितायां सूत्रकृताङ्गनिर्युक्तौ प्राकृतभाषायां 'सूतगडं' 'सुत्तगडं' 'सूयगडं' इति त्रीणि नामान्यस्य शास्त्रस्य निर्दिष्टानि, अनुक्रमेणास्य नामत्रयस्य 'सूतकृतं, सूत्रकृतं, सूचाकृतम्' इति त्रयः पर्यायोः संस्कृतभाषायां भवन्ति, सूत्रकृताङ्गचूर्णिकृता चूर्णी वृत्तिकृता शीलाचार्येण च वृत्तौ त्रयाणामप्येतेषां नाम्नामर्थः सम्यक् स्पष्टीकृतः। तथापि 'सूयगड' इति प्राकृतनाम्नैव, 'सूत्रकृतम्' इति संस्कृतनाम्नैव चास्य सर्वत्र प्रसिद्धिः श्वेताम्बरपरंपरायाम् । समवायाङ्गनन्दीसूत्रादिष्वागमशास्त्रेष्वपि 'सूयगड 'नाम्नोल्लेखोऽस्य दृश्यते। 'सूयगड 'शब्दस्य व्युत्पत्त्यर्थोऽन्येध्वपि सूत्रेषु घटते तथापि रूढ्या द्वितीयमेवाङ्गं 'सूयगड '('सूत्रकृत')शब्देनोच्यते इति नन्दीवृत्त्यादौ स्पष्टीकृतम् ।
दिगम्बरपरम्पराँयां सुद्दयडं सूदयडं सूदयदं इति नामत्रयं प्राकृतभाषायामुपलभ्यते, तत्र 'सुह' इति 'सूत्र 'शब्दस्य रूपम् , 'सूद' इत्यपि 'सूत्र'शब्दस्य 'सूत'शब्दस्य वा रूपम् , यड इति यद इति च ‘कृत'शब्दस्य प्राकृत रूपम् । संस्कृतभाषायां तु 'सूत्रकृत'नाम्न एव तत्त्वार्थसूत्रव्याख्यासर्वार्थसिद्धि[१।२०]-राजवार्तिकप्रभृतिग्रन्थेषु सर्वत्रोलेखः।
भाषा-सर्वापि एकादशाङ्गी अर्धमागध्यां भाषायां गणधरभगवद्भिः प्रणीता, अतोऽस्य ग्रन्थस्य अर्धमागधी भाषा। अर्धमागध्यां रचितेष्वपि आगमशास्त्रेषु कालक्रमेण केचिद् भाषायां संस्काराः संजाताः, तथापि आचाराङ्ग-सूत्रकृताङ्गयोस्पलभ्यमाना भाषा अतिप्राचीनेति साम्प्रतकालीना ऐतिह्यविदो वदन्ति ।
सूत्रकृताङ्गस्यार्वाचीनेषु हस्तलिखितादशेषु तकारादीनां स्थाने यकारादीनां प्रयोगा बहुलतया दृश्यन्ते, अस्माभिस्तु प्राचीनहस्तलिखितादर्शानुसारेण प्राचीनाः प्रयोगा अत्र संगृहीताः।
विभागा:-सूत्रकृताङ्गस्य द्वौ मुख्यविभागौ, एतौ च 'श्रुतस्कन्धौ' इति व्यपदिश्यते। तत्र प्रथमे श्रुतस्कन्धे समयादीनि गाथान्तानि षोडश अध्ययनानि, अतो गाथाध्ययनस्य षोडशत्वादयं प्रथमश्रुतस्कन्धो 'गाहासोलसग' (गाथाषोडशक) इति नाम्नापि प्रसिद्धः। द्वितीये श्रुतस्कन्धे पुण्डरीकादीनि नालन्दीयान्तानि सप्त अध्ययनानि, एतानि च महान्ति, अतो 'महज्झयण 'शब्देनाप्यमीषां व्यपदेशः। दृश्यतां पृ० ११८, ११९, १२१ टि० १।
अङ्गेषु प्रविष्टम् , अङ्गभावेन व्यवस्थितमित्यर्थः । यत् पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितम्-अङ्गबाह्यत्वेन व्यवस्थितं तदनङ्गप्रविष्टम्"-पृ. २०३॥ “गायदुगद्धं तु' इति पूर्वपश्चिमउरः-पृष्टिरूपम्" इति श्रीचन्द्रसूरिविरचिते नन्दीवृत्तिटिप्पनके पृ० १६१॥ १. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० १ टि० १॥ २. “सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कयं सुत्तमिणं तेण सूयगडं ॥१८॥" इति सूत्रकृताङ्गनिर्युक्त्यनुसारेण 'श्रुतकृतम्' इत्यपि संस्कृते पर्यायोऽभिप्रेतः सम्भवति ॥ ३. द्वादशेऽजे दृष्टिवादेऽपि परिकर्म-सूत्रपूर्वगत-अनुयोग-चूलिकात्मकः पञ्चविधो विभागो वर्तते, “से किं तं दिट्ठिवाए.."से समासओ पंचविहे पण्णत्ते, तं जहा--परिकम्मे १ सुत्ताई २, पुव्वगए ३, अणुओगे ४, चूलिया ५"-नन्दीसूत्र ९८। बौद्धग्रन्थेष्वपि 'सुत्तपिटकं, सुत्तनिपातो' इति नानी स्तः। अत्रापि 'सूत्र'शब्दो सख्या ग्रन्थविशेषवाचक इति ध्येयम् ॥ ४. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० २ टि० ४, पृ० ५ टि०२॥ ५. दृश्यतामस्य सूत्रकृताङ्गस्थ प्रस्तावना पृ० ३ टि. १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org