SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ श्री अजितनाथस्वामिने नमः॥ आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपझेभ्यो नमः । आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादप भ्यो नमः ।। पुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः । आमुखम परमकृपालोः परमात्मनः सद्गुरुदेवानां च कृपया द्वादशाङ्गयां द्वितीयस्य श्रीसूत्रकृताङ्गसूत्रस्य हस्तलिखितप्राचीनविविधादर्शाद्यनुसारेण संशोधन विधाय आगमभक्तानां पुरत उपन्यस्यते। केवलज्ञानप्रादुर्भावानन्तरं चतुर्विंशतितमतीर्थकरेण परमात्मना श्रमणेन भगवता महावीरस्वामिना (श्रीवर्धमानस्वामिना) अपापापुर्यो महासेनवने प्रारब्धां धर्मदेशनामनुसृत्य भगवच्छिष्यैः श्रीइन्द्रभूतिगौतमादिभिर्गणधरैर्द्वादश अङ्गसूत्राणि प्रणीतानि, तद्यथा प्राकृते नाम संस्कृते नाम प्राकृते नाम । संस्कृते नाम , मायारो' आचारः ७ उवासगदसामो उपासकदशाः २ सूयगडो सूत्रकृतम् ८ अंतगडदसाओ अन्तकृदशाः ३ ठाणं स्थानम् ९ अणुत्तरोववाइयदसाओ अनुत्तरौपपातिकदशाः ४ समवामो समवायः १० पण्हावागरणाई प्रश्नव्याकरणम् ५ वियाहपण्णत्ती व्याख्याप्रज्ञप्तिः ११ विवागसुर्य "विपाकश्रुतम् ६ गायाधम्मकहाओ ज्ञातधर्मकथाः १२ दिट्टिवायो दृष्टिवादः इयं च द्वादशाङ्गी 'द्वादशाङ्गं गणिपिटकम्' इत्यपि शास्त्रेषु गीयते । श्रृंतपुरुषस्य ‘अङ्ग'स्थानीयत्वा १. नन्दीसूत्रानुसारेणेमानि नामानि ॥ २. 'भगवती'सूत्र नाम्नाप्यस्य प्रसिद्धिः ॥ ३. दिगम्बरप्रन्थेषु जयधवला[पृ० ११४]दिषु ‘णाहधम्मकहा' इत्यपि पाठः॥ ४, तत्त्वार्थभाष्ये [१।२०] इदं नाम । अन्यत्र 'ज्ञाताधर्मकथाः' इत्यपि उल्लेखो नन्दी[हारिभद्री]वृत्यादौ दृश्यते। तत्त्वार्थसूत्रव्याख्यायां सर्वार्थसिद्धौ [१।२०] ज्ञातृधर्मकथा इत्यपि दृश्यते ॥ ५. 'पण्हवायरणं' इत्यपि जयधवला[पृ० ११९]दौ॥ ६. 'विवागसुत्तं' इति जयधवला[पृ० १२०]दौ॥ ७. 'विपाकसूत्रम्' इति तत्त्वार्थ[१।२०]भाष्यादौ॥ ८. 'दृष्टिपातः' इति तत्त्वार्थभाष्ये १।२०॥ ९. दृष्टिवादास्यमिदं द्वादशमङ्गसूत्रं चिराद् व्यवच्छिन्नम्। किन्तु यदा तदासीत् तदा महासमुद्रवदतिविशालमासीत् । अस्मिन् १ परिकर्म, २ सूत्राणि, ३ पूर्वगतम् , ४ चूलिका, ५ प्रथमानुयोग इति पञ्च विभागा आसन् , तेषु पूर्वगते उत्पादपूर्वादीन्युत्तरोत्तरम् अतिमहान्ति चतुर्दश पूर्वाणि आसन् ॥ १०. नन्दीसूत्रादिषु ॥ ११. "पायदुर्ग २ जंघो २ रू २ गातदुगद्धं २ तु दो य बाहुयो २ । गीवा १ सिरं १ च पुरिसो बारसअंगो सुयविसिहो ॥१॥" इति नन्दीसूत्रस्य चूर्णौ [पृ० ५७] गाथा दृश्यते, नन्दीसूत्रस्य हारिभद्रयां वृत्तावपि [पृ० ६९] 'गातट्ठयगं' इति पाठभेदेन गाथेयं वर्तते। अस्य मलयगिरिसूरिविरचिता व्याख्या-" इह पुरुषस्य द्वादश अङ्गानि भवन्ति, तद्यथा-द्वौ पादौ, द्वे जङ्के, द्वे ऊरुणी, द्वे गात्रार्धे, द्वौ बाहू, प्रीवा शिरश्च । एव श्रुतरूपस्यापि परमपुरुषस्य आचारादीनि द्वादश अङ्गानि क्रमेण वेदितम्यानि।""""श्रुतपुरुषस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy