________________
५२४
ज्ञाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदि ग्राह्याः पाठाः
तत्तथा, ततः पदत्रयस्थ कर्मधारयः, तत्र तदेव वा । किमिजाला उलसंसत्ते, कृमिजालैराकुलैः व्याकुलैः कुलं वा सङ्कीर्णे यथा भवतीत्येवं संसक्तं सम्बद्धं यत् तत्तथा, तत्र तदेव वा असुइविलीणविगयबीभत्सदरिस णिज्जे, अशुचि अपवित्रमस्पृश्यत्वात्, विलीनं जुगुप्सासमुत्पादकत्वात्, विकृतं विकारवत्वात्, बीभत्सं द्रष्टुमयोग्यत्वात् एवम्भूतं दृश्यते इति दर्शनीयम्, ततः कर्मधारयः, तत्र तदेव वा । भवेतारूवे सिया, यादृशः सर्पादिकडेवरे गन्धो भवेत् यादृशं वा सर्पादिकडेवरं गन्धेन भवेत् एतद्रूपस्तद्रूपो वा स्याद् भवेत्तस्य भक्तकबलस्य गन्ध इति सूत्रकारस्य विकल्पोल्लेखः । इणट्टे समट्ठे, नायमर्थः समर्थः सङ्गत इत्ययं तु तस्यैव निर्णयः । निर्णीतमेव गन्धस्वरूपमाह -- एत्तो अणिद्वतराए चेव, इतः अहिकडेवरादिगन्धात् सकाशादनिष्टतर एव अभिलाषस्याविषय एव, अकान्ततरक: अकमनीयतरस्वरूपः, अप्रियतरः अप्रीत्युत्पादकत्वेन, अमनोज्ञतरक: कथयाऽप्यनिष्टत्वात्, अमनोम्यतरश्चिन्तयाऽपि मनसोऽनभिगम्य इत्यर्थः । " - इति ज्ञानधर्मकथा टीकायाम् पृ० १२९ - १३० ।
पृ० १४९ पं० १८. सिरिदामगंडं जाव गंधरणि । दृश्यतां पृ० १४६ पं० ९, पृ० २८९ पं० ९ ।" सिरिदाम गंड मित्यादौ यावत्करणात् पाडलमलिएत्यादिर्वर्णको दृश्यः । " इति ज्ञाताधर्मकथाटीकायाम् पृ० १३२ ।
पृ० १५१ पं० १७. हयगय० । दृश्यतां पृ० ३३ पं० २।
पृ० १५८ पं० ७. अप्पत्थियपत्थया जाव परिवजिया । " यावत्करणात् दुरंतपंतलक्खणे ति दुरन्तानि दुरपर्यन्तानि प्रान्तानि अपसदानि लक्षणानि यस्य स तथा तस्यामन्त्रणम्, हीणपुण्णचाउदला इति, हीना असमग्रा पुण्या पवित्रा चतुर्दशी तिथिर्यस्य जन्मनि स तथा चतुर्दशीजातो हि किल भाग्यवान् भवतीति आक्रोशे तदभावो दर्शित इति, सिरि-हिरि-धी-कित्तिवज्जियत्ति प्रतीतम् । ” इति ज्ञाताधर्मकथाटीकायाम् पृ० १३९ ।
पृ० १९० १० १४. जहा जंबुद्दीवपण्णत्तीए । “जहा जंबुद्दीवपन्नत्तीए ति यथा जम्बूद्वीपप्रज्ञयां ऋषभस्य निर्वाणमहिमोतस्तथेह मल्लिजिनस्य वाच्य इत्यर्थः, स चैवमर्थतः - यत्र समये मल्लिरईन् कालगतो व्यतिक्रान्तः समुद्वातः छिन्न जातिजरामरणबन्धनः सिद्धः तत्र समये शक्रश्वलितासनः प्रयुक्तावधिर्विज्ञात जिननिर्वाणः सपरिवारः सम्मेतशैलशिखरेऽवततार । ततोऽसौ विमना निरानन्दोऽश्रुपूर्ण नयनो जिनशरीरकं त्रिः प्रदक्षिणीकृत्य अनतिदूरासन्ने नमस्यन् पर्युपास्ते स्म, एवं सर्वेऽपि वैमानिकादयो देवराजाः ।
ततः शक्रो देवैर्नन्दनवनात् आनायितगोशीर्ष सरसदारुविहितचितित्रयः क्षीरसमुद्रादानीतक्षीरोदकेन जिनदेहं स्वापयामास, गोशीर्षचन्दनेनानु लिलेप, हंसलक्षणं शाटकं निवासयामास, सर्वालङ्कारविभूषितं चकार, शेषा देवा गगधरानगारशरीरकाण्येवं चक्रुः शक्रस्ततो देवैस्तिस्रः शिबिकाः कारयामास । तत्रैकत्रासौ जिनशरीरमारोपयामास महद्धर्था च चितिस्थाने नीत्वा चितिकायां स्थापयामास, शेवदेवा गगवरानगारशरीराणि द्वयोः शिविकयोरारोप्य चित्योः स्थापयामासुः । ततः - शक्रादेशादग्निकुमारा देवास्तिसुष्वपि चितिष्वग्निकार्यं विकृतवन्तो वायुकुमारास्तु वायुकायम्, शेषदेवाश्च कालागुरुप्रवरकुन्दुरुक्क तुरुष्कधूपान् घृतं मधु च कुम्भायशः प्रचिक्षिपुः । ततो मांसादिषु दग्वेषु मेघकुमारदेवाः क्षीरोदकेन चितीर्निर्वापयामासुः ।
ततः शक्रो भगवतो दक्षिणमुपरितनं सक्थि जग्राह ईशानश्च वामम्, चमरोऽघस्तनं दक्षिणम्, बलिमम्, शेष यथार्हमङ्गो राङ्गानि गृहीतवन्तः । ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् चक्रुः परिनिर्वाण महिमानं च । ततः शक्रो नन्दीश्वरे गत्वा पूर्वस्मिन्नञ्जनकपर्वते जिनायतनमहिमानं चकार, तल्लोकास्तु चत्वारश्च गुर्षु पूर्वाञ्जनपार्श्ववर्तिषु दधिमुखपर्वतेषु सिद्धायतनमहिमानं चक्रुः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org