________________
तृतीयं परिशिष्टम
विविधानामभिषेकोपयोगिनां भाजनानामष्टसहस्रं २ विचक्रुः, तैश्च कलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदस्य च मागधादीनां च तीर्थानां गङ्गादीनां च महानदीनां पद्मादीनां महाहृदानामुदकमुत्पलादीनि मृत्तिकां च हिमवदादीनां च वर्षधराणां वर्तुलविजयार्धानां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान् सर्वौषधी: तूवराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः । ततोऽसावच्युत देवराजोऽनेकैः सामानिकादिदेवसहस्त्रैः सह जिन पतिममिषिषेच । अभिषेके च वर्तमाने इन्द्रादयो देवाः छत्रचामर-कलश-धूप-कडुच्छुक- पुष्पगन्धाद्यनेकविधाभिषेक - द्रव्यव्यग्रहस्ताः वज्रशूलाद्यनेका युधसम्बन्धबन्धुरपाणयः आनन्दजललवप्लुतगण्डस्थलाः ललाटपति करसम्पुटा जयजयार व मुखरितदिगन्तराः प्रमोद मदिरामन्दमदवशविरचितविविधचेष्टाः पर्युपासाञ्चक्रिरे, तथा केचित् चतुर्विध वाद्यं वादयामासुः केचिच्चतुर्विधं गेयं परिजगुः, केचिच्चतुर्विध नृत्तं ननृतुः केचिच्चतुर्विधमभिनयम भिनिन्युः केचिद् द्वात्रिंशद्विषं नाट्यविधिमुपदर्शयामासुरिति । ततो गन्धकाषायिकया गात्राण्यलूषयन् । ततश्चाच्युतेन्द्रो मुकुटादिभिर्जिन - मलञ्चकार, ततो जिनपतेः पुरतो रजतमयतन्दुलैर्दर्पणादीन्यष्टाष्ट मङ्गलकान्यालिलेख, पाटलादिबद्दल परिमल कलितकुसुमनिकरं व्यकिरत्, शुभसुरभिगन्धबन्धुरं धूपं परिददाह, अष्टोत्तरेण • वृत्तशतेन च सन्तुष्टस्तुष्टाव - नमोऽस्तु ते सिद्ध ! बुद्ध । नीरजः ! श्रमण ! समाहित! समस्तसम ! योगिन् ! शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम । निःशल्य ! निःसङ्ग ! मानमुग्ण ! अगण्यगुगरत्न ! शीलसागर ! अनन्ताप्रमेयभव्यधमेवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तेऽर्हते, नमोऽस्तु
भगवते, इत्यभिधाय वन्दते स्म, ततो नातिदूरे स्थितः पर्युपासाञ्चक्रे । एवं सर्वेऽप्यभिषिषिचुः, केवलं सर्वान्ते शक्रोऽभिषिक्तवान् तदभिषेकावसरे च ईशानः शक्रवदात्मानं पञ्चधा विधाय जिनस्योत्सङ्गधरणादिक्रियामकरोत् । ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाप्रेभ्योऽष्टौ तोयधारा युगपद् विनिर्ययुः, वेगेन च वियति समुत्पेतुः, एकत्र च मिलन्ति स्म, भगवतो मूर्धनि च निपेतुः, शेषमच्युतेन्द्रवदसावपि चकार ततोऽसौ पुनर्विहितपञ्चप्रकारात्मा तथैव गृहीत निश्चतुर्निकाय देवपरिवृतः तूर्यनिनादापूरिताम्बरतलो जिननायकं जिनजनन्याः समीपे स्थापयामास, जिनप्रतिबिम्बमवस्वापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डलयुगलं च तीर्थकरस्योच्छीर्षकमूळे स्थापयति स्म, श्रीदामकाण्डकं च नानामणिमयं जिनस्योल्लोके दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप, ततः शक्रो वैश्रमणमवादीत् - भो देवानुप्रिय ! द्वात्रिंशद्धिरण्यकोटीर्द्वात्रिंशत् सुवर्ण कोटीश्व जिनजन्मभवने संहर । तदादेशाच्च जृम्भका देवास्तथैव चक्रुः । शक्रः पुनदेवैर्जिन जन्मन गर्यो त्रिकादिष्वेवं घोषणं कारयामास, यथा-हन्त ! भुवनवास्यादिदेवाः ! शृण्वन्तु भवन्तो यथा यो जिने जिनजनन्यां वाऽशुभं मनः सम्प्रधारयति तस्यार्जकमञ्जरीव सप्तधा मूर्धा स्फुटतु । ततो देवा नन्दीश्वरे महिमानं विदधुः, स्वस्थानानि च जग्मुरिति । " इति ज्ञाताधर्मकथाटीकायाम् पृ० १२७-१२९॥
3
पृ० १४८ पं० १६. अहिमडे ति वा जाव अतिराए अमणामतराए। "अहिमडे इ व चि अहिमृतकस्येव अहिमृतकमित्र वेति यावत्करणादिदं दृश्यम् — गोमडे इ वा सुणमडे इ वा मणुस्समडे इ वा महिसमडे इ वा मूसगमडे इ वा आसमडे इ वा हरिथमडे इ वा सीहमडे इ वा वग्धमडे ति वा विगमडे इ वा दीवियमडे इ वा, द्वीपिकः चित्रकः । किम्भूते अहिकडेवरादौ, किम्भूतं वा तदित्याह - मय कुहिषविणदुर भिवावण्णदुभिगंधे, मृतं जीवविमुक्तमात्र सत् यत् कुथितं कोथमुपगतं तत् मृतकुथितमीत्रदुर्गन्धमित्यर्थः, तथा विनष्टम् उच्छूनत्वादिभिर्विकारैः स्वरूगदपेतं सत् यद्दुरभि तीव्रतर दुष्टगन्धोपेतं तत्तथा, तथा व्यापनं शकुनशृगालादिभिर्भक्षगद् विरूपां बीभत्सामवस्थां प्राप्तं सयद् दुरभिगन्धं तीव्रतर! मशुभ गन्धवत्
Jain Education International
५२३
For Private & Personal Use Only
www.jainelibrary.org