SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ५२२ शाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदिग्राह्याः पाठाः एवमेवोर्ण लोकवास्तव्याः, नन्दनवनकूटनिवासिन्य इत्यर्थः, अष्टौ दिक्कुमारीमहत्तरिकास्तयैवागत्य विरचिताभ्रवर्द्दलकाः आयोजनमानक्षेत्रं गन्धोदकवर्षे पुष्पवर्षे धूम्पटीश्च कृत्वा जिनसमीपमागत्य परिगायन्त्य आसाञ्चक्रुः। तथा पौरस्त्यरुचकवास्तव्याः, रुचकाभिधानस्य त्रयोदशस्य द्वीपस्य मध्यवर्तिनःप्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्वदिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थः, आगत्य तयैवादहस्ता गायन्त्यस्तस्थुः। एवं दक्षिगरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ताः, पश्चिनरुचकवास्तव्या जिनस्य पश्चिमेन तालवृन्तहस्ताः, उत्तररुचकवास्तव्याश्चामरहस्ता जिनस्य उत्तरेण, एवं चतस्रो रुचकस्य विदिवास्तव्या आगत्य दीपिकाहस्ता जिनस्य चतसूषु विदिक्षु तथैव तस्थुः । मध्यमरुचकवास्तव्याः, स्वकद्वीपस्याभ्यन्तरार्धवासिन्य इत्यर्थः, चतसस्तास्तथैवागत्य जिनस्य चतुरङ्गुलबर्जनाभिनालन्छेदनं च विवरखननं च नाभिनालनिधानं च विवरस्य रत्नपूरणं च तदुपरि हरितालिकापीठबन्धं च पश्चिमावर्जदिक्त्रये कदलीगृहत्रयं च तन्मध्येषु चतु:शालभवनत्रयं च तन्मध्यदेशे सिंहासनत्रयं च दक्षिणे सिंहासने जिनजनन्योरुपवेशनं च शतपाकादितैलाभ्यञ्जनं च गन्धद्रव्योद्वर्तनं च पुष्पोदकं च पूर्वत्र पुष्पोदक-गन्धोदक-शुद्धोदकमजनं च सर्वालङ्कारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वह्रथुज्ज्वलनं चाग्निहोमं च भूतिकर्म च रक्षापोट्टलिका च मणिमयपाषाणद्वयस्य जिनकर्णाभ्यणे प्रताडनं च 'भवतु भगवान् पर्वतायुः' इति भणनं च पुनः समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः, कृत्वा च गायन्त्यस्तस्थुरिति । __ सौधर्मकल्पे च शक्रस्य सहसा आसनं प्रचकम्पे, अवधिं चासौ प्रयुयुजे, तीर्थकरजन्म चालुलोके, ससम्भ्रमं च सिंहासनादुत्तस्थौ, पादुके च मुमोच, उत्तरासङ्गं च चकार, सप्ताष्टानि च पदानि जिनाभिमुखमुपजगाम, भक्तिभरनिर्भरो यथाविधि जिनं च ननाम, पुनः सिंहासनमुपविवेश, हरिणेगमेषिदेवं पदात्यनीकाधिपति शब्दयाञ्चकार, तं चादिदेश, यथा-सुधर्मायां सभायां योजनपरिमण्डलां सुघोषाभिधानां घण्टां त्रिस्ताडयनुद्घोषगां विधेहि, यथा-भो भो देवा ! गच्छति शक्रो जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृद्धया शीघ्र शक्रयान्तिके प्रादुर्भवतेति, स तु तथैव चकार । तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशद् घण्टालक्षाणि समकमेव रणरणारवं चक्रुः, उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्टं देवाः सपदि विदधुः। ततः पालकाभिधानाभियोगिकदेव वेरचिते लशयोजनप्रमाणे पश्चिमावर्जदिक्त्रयनिवेशिततोरणद्वारे नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः सामानिकादिदेवकोटिभिरनेकाभिः परिवृतः पुरःप्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराद्यनेकमङ्गल्यवस्तुस्तोमः पञ्चवर्णकुडभिकासहस्रपरिमण्डितयोजनसहस्रोच्छ्रितमहेन्द्रध्वजप्रदर्शितमार्गो. नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानर्द्धिमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रिः प्रदक्षिणीकृतवान् , उत्तरपूर्वस्यां दिशि चतुर्भिरजुलैर्भुवमप्राप्तं विमानमवस्थापितवान् , ततोऽवतीर्य भगवन्तं समातृकं दिक्कुमारीवदभिवन्द्य जिनमातरमवस्वाप्य जिनप्रतिबिम्ब तत्सन्निधौ निघाय, पञ्चधाऽऽत्मानमाधाय, एकेन रूपेग करतलपल्लवावधृतजिनः, अन्येन जिननायकोररि विधृतच्छत्रः, अन्याभ्यां करचालितप्रकीर्णकः, अन्येन च करकिशलयकलितकुलिशः पुरः प्रगन्ता, सुरगिरिशिखरोपरिवर्तिपण्डकानं गत्वा तद्वयवस्थितातिपाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्णः। एवमन्ये ईशानादयो वैमानि केन्द्राश्चमरादयो भानपतीन्द्राः कालादयो व्यन्तरेन्द्राः चन्द्र-सूर्यादयो ज्योतिष्काः सपरिवाराः मन्दरेऽवतेः।। ततश्चाच्युतदेवराजो जिनाभिषेक मन्याभियोगिकदेवानादिदेश, ते चाष्टसहस्रं सौवर्णिकानां कलशानामेवं रूप्यमयानां मणिमयानाम् एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि त्रिसंयोगवतामष्टसहस्रं भौमेयकानां च तथाऽष्टसहस्रं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy