SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् इत्यर्थः, जनबोलः अव्यक्तवर्णो ध्वनिः, कलकलः, स एवोपलभ्यमानवचनविभागः, उम्मिः सम्बाधः, एवमुस्कलिका लघुतरः समुदायः, एवं सन्निपातः अपरापरस्थानेभ्यो जनानामेकत्र मीलनम्, तत्र बहुजनोऽन्योन्यस्याख्याति सामान्येन, प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाह ~भाषते प्ररूपयति चेति, अथवा आख्याति सामान्यतः, प्रज्ञापयति विशेषतः, बोधयति वा, भाषते व्यक्तपर्यायवचनः, प्ररूपयति उपपत्तितः। इह भागए त्ति राजगृहे, इह संपत्ते त्ति गुणशिलके, इह समोसढे त्ति साधूचितावग्रहे । एतदेवाह-इहेव रायगिहे इत्यादि, महापडिरूवं ति यथाप्रतिरूपमुचितम् इत्यर्थः, तमिति तस्मात् महाफलं ति महत् फलम् अर्थों भवतीति गम्यम्, तहारूवागं ति तत्प्रकारस्वभावानां महाफलजनस्वभावानामित्यर्थः, नाम-गोयस्स त्ति नाम्नो यादृच्छिकस्याभिधानस्य गोत्रस्य गुणनिष्पन्नस्य, सवणयाए ति श्रवणेन, किमंग पुण त्ति किमङ्ग पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः,, अङ्गेत्यामन्त्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति । अभिगमनम् अभिमुखगमनम् , वन्दनं स्तुतिः, नमस्यनं प्रणमनम् , प्रतिप्रच्छनं शरीरादिवार्ताप्रश्नः, पर्युपासनं सेवा, एतद्भावस्तत्ता तया, तथा एकस्याप्यार्यस्य आर्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात् , वन्दामो ति स्तुमः, नमस्यामः प्रणमामः, सत्कारयामः आदरं कुर्मों वस्त्राद्यर्चनं वा, सन्मानयामः उचितप्रतिपत्तिभिः, कल्याणं कल्याणहेतुम् , मङ्गलं दुरितोपशमहेतुम् , दैवतं दैवम् , चैत्यमित्र चैत्यं पर्युपासयामः सेवामहे । एतत् णो अस्माकं प्रेत्यभवे जन्मान्तरे हिताय पथ्यान्नवत् , सुखाय शर्मणे, क्षमाय सङ्गतत्वाय, निःश्रेयसाय मोक्षाय, आनुगामिकस्वाय भवपरम्परासुखानुबन्धिसुखाय भविष्यतीति कृत्वा इति हेतोबहव उग्रा आदिदेवावस्थापितारक्षवंशजाः, उग्रपुत्राः त एव कुमाराद्यवस्थाः, एवं भोगाः आदिदेवेनैवावस्थापितगुरुवंशजाताः, राजन्या भगवद्वयस्यवंशजाः, क्षत्रियाः सामान्यराजकुलीनाः, भटाः शौर्यवन्तः, योधाः तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गगराजानो नव मल्लकिनो नव लेच्छकिन इति, लेच्छइ ति क्वचिद् वणिजो व्याख्याताः, लिप्सव इति संस्कारेणेति, राजेश्वरादयः प्राग्वद्, अप्पेगइय ति अप्येके केचन, वंदणवत्तिय ति वन्दनप्रत्ययं वन्दनहेतोः, शिरसा कण्ठे च कृता धृता माला यैस्ते शिरसाकण्ठेमालाकृताः, कल्पितानि हाराहारत्रिसरकाणि प्रालम्बश्च प्रलम्बमानः कटिसूत्रक च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनावलिसानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा, पुरिसवग्गुर ति पुरुषाणां वागुरेव वागुरा परिकरः, महया महता, उस्कृष्टिश्च भानन्दमहाध्वनिः गम्भीरध्वनिः, सिंहनादश्च, बोलश्च वर्णव्यक्तिवर्जितो धनिरेख, कलकलश्च व्यक्तवचनः स एव, एतल्लक्षणो यो स्वस्तेन, समुद्ररवभूतमिव जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते कुर्वाणाः।" इति ज्ञाताधर्मकथाटीकायाम् पृ० ४४-४५। पृ० ४९५० १३. जाव भरहो इव मणुस्साणं। " इह गमे यावत्करणादिदं दृश्यम्-इंदो इव देवाणं, चमरो इव असुराणं, धरणो इव नागाणं, चंदो इव ताराणं ति" इति ज्ञाताधर्मकथाटीकायाम् पृ० ५५। पृ० ४९ पं० १४. गामागरनगर जाव सन्निवेसाणं "गामागर० इह दण्डके यावत्करणादिदं दृश्यम्-नगर-खेड-कब्बड-दोणमुह-मर्डव-पट्टण-संबाह-सन्निवेसाणं माहेवच्चं पोरेवचं सामित्तं भत्तित्तं महत्तरगत्तं आणाईसरसेगावच्चं कारेमाणे पालेमाणे महयाहयन-गीय-वाइय-तंतीतल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहि। तत्र करादिगभ्यो ग्रामः, भाकरो लवणाद्युत्पत्तिभूमिः, अविद्यमानकरं नगरम् , धूलीप्राकारं खेटम् , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy