________________
५१६ शाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदिग्रायाः पाठाः
कुनगरं कर्बटम, यत्र जल-स्थलमार्गाभ्यां भाण्डान्यागच्छन्ति तद् द्रोणमुखम् , यत्र योजनाभ्यन्तरे सर्वतो ग्रामादि नास्ति तद् मडम्बम् , पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यत्र तु स्थलेन तत् स्थलपत्तनम् । यत्र पर्वतादिदुर्गे लोका धान्यानि संवहन्ति स संवाहः, सार्थादिस्थानं सग्निवेशः, माधिपत्यं अधिपतिकर्म रक्षेत्यर्थः, पोरेवञ्चं पुरोवर्तित्वमग्रेसरत्वमित्यर्थः, स्वामित्वं नायकत्वम् , भर्तृत्वं पोषकत्वम् , महत्तरकत्वम् उत्तमत्वम् , माज्ञेश्वरस्य आज्ञाप्रधानस्य सतः तथा सेनापतेर्भावः आज्ञेश्वरसेनापत्यम्, कारयन् अन्यैर्नियुक्तकैः, पालयन् स्वयमेव, महता प्रधानेन, अहय त्ति आख्यानकप्रतिबद्धं नित्यानुबन्धं वा यनाट्यं च नृत्यम् , गीतं च गानम् , तथा वादितानि यानि तन्त्री च वीणा, तलौ च हस्तौ, तालश्च कंसिका, तद्धितानि च वादित्राणि, तथा घनसमानध्वनियों मृदङ्गः पटना पुरुषेण प्रवादितः सखेतिद्वन्द्वः, ततस्तेषां यो वस्तेनेति, इति कटु इतिकृत्वा एवमभिधाय जय-जयशब्दं प्रयुके श्रेणिकराज इति प्रकृतम् ।" इति ज्ञाताधर्मकथाटीकायाम् पृ० ५५ A।
पृ० ४९ पं० १५. महता जाब विहरति । दृश्यतां पृ० ३ पं०१ इत्यत्र वर्णके।
"महया इह यावत्करणात् एवं वर्णको वाच्यः-महयाहिमवंतमहंतमलयमंदरमहिंदसारे अञ्चतविसुद्धदीहरायकुलवंसप्पसूए निरंतरं रायलक्खणविराइयंगमंगे बहुजणबहुमाणपूहए सम्वगुणसमिद्धे खत्तिए मुहिए मुद्धाभिसित्ते पित्रादिभिर्धन्यभिषिक्तत्वात् , माउपिउसुजाए, दयपत्ते दयावानित्यर्थः, सीमंकरे मर्यादाकारित्वात् , सीमंधरे कृतमर्यादापालकत्वात् , एवं खेमंकरे खेमंधरे, क्षेमम् अनुपद्रवता, मणुस्सिदे जणवयपिया हितत्वात् , जणवयपुरोहिए शान्तिकारित्वात् , सेउकरे मार्गदर्शकः, केउकरे अद्भुतकार्यकारित्वात् , केतुः चिह्नम् , नरपवरे नराः प्रवराः यस्येति कृत्वा, पुरिसवरे पुरुषाणां मध्ये वरत्वात् , पुरिससीहे शूरत्वात् , पुरिसमातीविसे शापसमर्थत्वात् , पुरिसपुंडरीए सेव्यस्वात् , पुरिसवरगंधहस्थी प्रतिराजगजभञ्जकत्वात् , अड्डे आढ्यः, दित्ते दर्पवान् , वित्ते प्रतीतः, विच्छिन्नविउलभवणसयणासणजागवाहणाइन्ने, विस्तीर्णविपुलानि अतिविस्तीर्णानि भवन-शयनासनानि यस्य स तथा, यानवाहनान्याकीर्णानि गुणवन्ति यस्य स तथा, ततः कर्मधारयः, बहुधणबहुजायरूवरयए, बहु धनं गणिमादिकं बहुनी च जातरूप-रजते यस्य स तथा, भायोगपयोगसंपउत्ते, आयोगस्य अर्थलाभस्य प्रयोगा उपायाः सम्प्रयुक्ता व्यापारिता येन स तथा, विच्छड्डियपउरभत्तपाणे, विच्छर्दिते त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छ वा नानाविधभक्तिके भक्तपाने यस्य स तथा, बहुदासीदासगोमहिसगवेलगप्पभूए, बहुदासीदासश्चासौ गोमहिषीगवेलगप्रभूतश्चेति समासः, गवेलका उरभ्राः, पडिपुण्णजंतकोसकोटागाराउहागारे, यन्त्राणि पाषाणक्षेपयन्त्रादीनि, कोशो भाण्डागारम्, कोष्ठागारं धान्यगृहम् , आयुधागारं प्रहरणशाला, बलवं, दुब्बलपञ्चामित्ते, प्रत्यमित्राः प्रातिवेशिकाः, मोहयकंटयं निहयकंटयं गलियकंटयं उद्धियकंटयं अकंटयं, कण्टकाः प्रतिस्पर्धिनो गोत्रजाः, उपहता विनाशनेन, निहताः समृद्धयपहारेण, गलिताः मानभङ्गेन, उद्धृता देशनिर्वासनेन, अत एवाकण्टकमिति, एवं उवहयसत्तमित्यादि, नवरं शत्रवोऽगोत्रजा इति, ववगयदुभिक्खमारिभयविप्पमुक्कं खेम सिवं सुभिक्खं पसंतडिंबडमरं, अन्वयन्यतिरेकाभिधानस्य शिष्टसंमतस्वात् न पुनरुक्ततादोषोऽत्र, रजं पसाहेमाणे विहरइ ति।" इति ज्ञाताधर्मकथाटीकायाम् पृ० ५५ ।
पृ० ५४ पं० ८. दप्पण जाव बहवे। “दप्पण ति आदर्शः, इह यावत्करणादिदं दृश्यम्-तयाणंतरं च णं पुण्णकलसा भिंगारा दिव्वा य छत्तपडागा सचामरा दसणरइयमालोइयदरिसणिज्जा वाउद्दयविजयंती य ऊसिया गगणतलमलिहंती पुरभो अहाणुपुष्वीए संपट्टिया।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org