________________
तृतीयं परिशिष्टम विद्यमाना इति। तथा शत्रवोऽगोत्रजाः निर्जिताः स्वसौन्दर्यातिशयेन परिभूताः। पराजितास्तु तद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः। ववगयदुब्भिक्खं मारिभयविप्पमुक्कमिति व्यक्तम् । पसंतडिंबडमरं ति डिम्बानि विघ्नाः डमराणि राजकुमारादिकृतवैराज्यादीनि । पसंताहियडमरं ति क्वचित् पाठः, तत्राहितडमरं शत्रुकृतविडुरोऽधिकविडुरो वा । रज्जं पसासेमाणे त्ति प्रशासयन् पालयन् , पसाहेमाणे ति क्वचित् पाठः, तत्राप्ययमेवार्थः। विहरति वर्तते।” इति औपपातिकसूत्रवृत्तौ ।
ज्ञाताधर्मकथाटीकायां पुनरित्थं व्याख्यातम्-"कूणिए नाम राय ति कूणिकनामा श्रेणिकराजपुत्रो राजा होत्थ त्ति अभवत् । वन्नमओ ति तद्वर्णको वाच्यः, स च महयाहिमवंतमहंतमलयमंदरमहिंदसारे इत्यादि पसंताबिडमरं रजं पसासेमाणे विहरति इत्येतदन्तः। तत्र महाहिमवानिव महान् शेषराजापेक्षया, तथा मलयः पर्वतविशेषः, मन्दरो मेरुः, महेन्द्रः शक्रादिदेवराजः, तद्वत् सारः प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि विघ्नाः डमराणि राजकुमारादिकृतविडुरा यस्मिंस्तत् तथा, प्रसाधयन् पालयन् , विहरति आस्ते स्मेति, समग्रं पुनरग्रे व्याख्यास्यामः।" इति ज्ञाताधर्मकथाटीकायाम् पृ०६। दृश्यतामस्मिन्नेव परिशिष्ट पृ० ४९५० १५ इत्यस्य टिप्पणम् ।
पृ०७५० ६. वण्णमो। “वण्णमओ त्ति वर्णको वाच्यः,सच वक्ष्यमाणधारिण्या इव दृश्यः" इति ज्ञाताधमेकथाटीकायाम् पृ०१०-११। दृश्यतामस्मिन्नेव परिशिष्टे पृ०८पं० १-२ इत्यस्य टिप्पणम्।
पृ० १०७ पं० १६. दिव्वे० वण्णओ। दृश्यतामस्मिन्नेव परिशिष्टे पृ० २ पं० २ इत्यस्य टिप्पणम्।
पृ० ३२१ पं० ५. वण्णओ। दृश्यतामत्रैव परिशिष्टे पृ० १५०१, पृ० ३ पं० १ इत्यस्य टिप्पणम्।
पृ०४ पं०९. सत्तुस्सेहे जाव। “ते णं काले णं ते णं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूई नाम अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वइरोसहनारायसंघयणे कणगपुलकनिग्यसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे घोरतवे उ(ओ?)राले घोरे घोरगुणे घोरतबस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेअलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते...विहरति" इति औपपातिकसूत्रे पाठः । __ " सत्तुस्सेहे ति सप्तहस्तोच्छ्रयः, यावस्करणादिदं दृश्यम्-समचउरंससंठाणसंठिए बजरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे, कनकस्य सुवर्णस्य पुलग त्ति पुलको लवस्तस्य यो निकषः कषपट्टे रेखालक्षणः तथा पम्ह ति पद्मगर्भस्तद्वत् गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेर्यः पुलकः सारो वर्णातिशयः तप्रधानो यो निकषो रेखा तस्य यत् पक्ष्मबहुलत्वं तद्वद् यो गौरः स कनकपुलकनिकषपक्ष्मगौरः, तथा उग्रतपाः, उग्रम् अप्रधृष्यं तपोऽस्येति कृत्वा, तथा तत्ततवे, तप्तं तापितं तपो येन स तप्ततपाः, एवं तेन तत्तास्ततं येन कर्माणि सन्ताप्य तेन तपसा स्वात्मापि तपोरूपः सन्तापितो यतोऽन्यस्यास्पृश्यमिव जातमिति, तथा महातपाः प्रशस्ततपा बृहत्तपा वा, तथा दीतं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेजः कर्मवनदाहकत्वात् , तथा ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेस्से इति पूर्ववत् ।" इति ज्ञाताधर्मकथाटीकायाम् पृ०९।
पृ०७ पं० ७. " महीण जाव सुरूवे त्ति, इह यावत्करणादिदं द्रष्टव्यम्-महीणपंचिदियसरीरे, महीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्य स तथा, लक्खणवंजणगुणोववेए, लक्षणानि स्वस्तिक-चक्रादीनि व्यञ्जनानि मष-तिलकादीनि तेषां यो गुणः प्रशस्तता तेनोपेतो युक्तो यः स तथा, उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात् , माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगे, तत्र मानं जलद्रोण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org