SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ५१२ शाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदिग्राह्याः पाठाः प्रमाणता, कथम् ? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यजलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम् अर्धभारप्रमाणता, कथम् १ तुलारोपितः पुरुषः यद्यर्धभारं तुलति तदा स उन्मानप्राप्त इत्युच्यते, प्रमाणं स्वाङ्गुलेनाष्टोत्तरशतोच्छ्यता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानि सुनिष्पन्नानि सर्वाणि भङ्गानि शिरःप्रभृतीनि यस्मिन् तत्तथाविधं सुन्दरमङ्गं शरीरं यस्य स तथा, ससिसोमाकारकंतपियदंसणे शशिवत् सौम्याकार कान्तं च कमनीयमत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्य स तथा, अत एव सुरुवे त्ति सुरूप इति ।" इति ज्ञाताधर्मकथाटीकायाम् पृ० ११ ।। पृ० ८५०१-२. जाव...जाव । औपपातिकसूत्रेऽत्र ईदृशः पाठो वर्तते "तस्स ण कोणियस्स रण्णो धारिणी णामं देवी होत्था, सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियतरमा लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमाकारकंतपियदसणा सुरूवा करयलपरिमियपसस्थतिवलीवलियमझा कुंडलुल्लिहियगंडलेहा कोमुइयरयणियरविमलपडिपुण्णसोमवयणा सिंगारागारचारुवेसा संगयगयहसियभणियविहियविलाससललियसैलावणिउणजुत्तोवयारकुसला पासादीया दरिसणिजा अभिरूवा पडिरूवा, कोणिएणं रण्णा भंभसारपुत्तेण सद्धिं अणुरचा अविरत्ता इट्टे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पञ्चणुभवमाणी विहरह।" इति औपपातिकसूत्रे । ___“धारिणी नाम देवी होत्था जाव सेणियस्स रण्णो इट्ठा जाव विहरइ इत्यत्र द्विर्यावच्छब्दकरणादेवं द्रष्टव्यम्-सुकुमालपाणिपाया अहीणपचिंदियसरीरा लक्खण-बंजणगुणोववेया माणुम्माणपमाणसुजायसन्वंगसुंदरंगी ससिसोमाकारकंतपियदसणा सुरूवा करतलपरिमिततिवलियबलियमझा, करतलपरिमितो मुष्टिग्राह्यस्त्रिवलीको रेखात्रयोपेतो बलितो बलवान् मध्यो मध्यभागो यस्याः सा तथा। कोमुइरयणिकरविमलपडिपुझसोमवयणा, कौमुदीरजनीकरवत् कार्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा । सिंगारागारचारवेसा, शृङ्गारस्य रसविशेषस्य अगारमिवागारम्, अथवा शृङ्गारो मण्डनभूषणाटोपः, तत्प्रधानः आकारः आकृतिर्यस्याः सा तथा, तथा चारुर्वेषो नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः। तथा संगयगयहसियभणियविहियविलाससललियसंलावणिउणजुत्तोवयारकुसला, सङ्गता उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहिवं चेष्टितम् , विलासो नेत्रचेष्टा, तथा सह ललितेन प्रसन्नतया ये संलापाः परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, युक्ता सङ्गता ये उपचारा लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः । पासाईया चित्तप्रसादजनिका, दरिसणिज्जा यां पश्यच्चक्षुर्न श्राम्यति, भभिरूवा मनोज्ञरूपा, पडिरूवा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा। सेणियस्स रण्णो इट्ठा वल्लभा, कंता काम्यत्वात् , पिया सदा प्रेमविषयत्वात् , मणुचा सुन्दरत्वात् , नामधेजा नामधेयवती प्रशस्तनामधेयवतीत्यर्थः, नाम वा धार्य हृदि धरणीय यस्याःसा तथा, बेसासिया विश्वसनीयत्वात.सम्मया तत्कृतकार्यस्य सम्मतत्वाद,बहमता बहशो बहभ्यो वान्येभ्यः सकाशान्मता बहमता बहमानपात्रं वा, अणुमया विप्रियकरणस्यापि पश्चान्मता अनुमता, भंडकरंडगसमाणा आभरणकरण्डकसमानोपादेयत्वात, तेल्लकेला इव सुसंगोविया, तैलकेला सौराष्ट्रप्रसिद्धो मृण्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयाल्लोठनभयाच्च सुष्टु सङ्गोप्यते एवं साऽपि तथोच्यते। चेलपेडा इव सुसंपरिगिहीया वस्त्रमञ्जूषेवेत्यर्थः, रयणकरंडगो विव सुसारविया सुसंरक्षितेत्यर्थः, कुत इत्याह-मा णं सीयं मा गं उण्हं मा गं दंसा १. दृश्यतामस्मिन्नेव परिशिष्टे पृ० ५१९ मध्ये पृ० ७५ पं० ४ इत्यस्य टिप्पणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy