SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ५०८ ज्ञाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदिग्राह्याः पाठाः पत्रपल्लवैरिति अभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलैश्वलद्भिः किसलयैः पत्रविशेषैस्तथा सुकुमालप्रबालैः शोभितानि वराङ्कुराण्यग्रशिखराणि येषां ते तथा, इह चाङ्कुर-प्रबालकिशलयपत्राणाम् अल-बहु बहुतरादिकालकृतावस्थाविशेषाद् विशेषः सम्भाव्यत इति । निचं कुसुनिया निचं माइया मयूरिताः, निःश्चं लवड्या पल्लविताः, निचं थवइया स्तबकवन्तः, निच्चं गुलुइया गुल्मवन्तः, निचं गोच्छिया जातगुच्छाः, यद्यपि स्तबक गुच्छयोरविशेषो नामकोशेऽधीतस्तथापी विशेषो भावनीयः, निच्चं जमलिया, यमलतया समश्रेणितया व्यवस्थिताः, नताः, निच जुवलिया युगलतया स्थिताः, निचं विणमिया विशेषेण फल- पुष्पभारेण, निचं पणमिया तथैव नन्तुमारब्धाः, निच्चं कुसुमिय-माइय-लवइय-थवइय-गुलइयगोच्छिय- जमलिय- जुबलिय-विणमिय-पणमिय- सुविभत्तपिंडि-मंजरिवडेंसगधरा, केचित् कुसुमित के कगुणयुक्ताः, अपरे तु समस्तगुणयुक्ताः, ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविमक्ता विविक्ता सुनिष्पन्नतया पिण्ड्यो लुम्ब्यः मञ्जर्यश्च प्रतीताः, ता एवावतंसकाः शेखरकाः, तान् धारयन्ति ये ते तथा, तथा सुय-बरहिण-मयणसाल-कोइल को भगकभिंगारक - कोंडलक- जीवजीवक- नंदीमुह-कविल-पिंगलक्खग - कारंड - चक्कवाय- कलहंस- सारसअणेगस उणगणमिहुणविचैरियसहुण्णइय म हुरसरनाइए शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनैर्विचरितं शब्दोन्नतिकं च उन्नतशब्दकं मधुरस्वरं च नादितं लपितं यस्मिन्स तथा वनखण्ड इति प्रकृतम्, सुरम्मे सपिंडियद रियभमरमहुकरिपहकर परिलितमत्तछप्पय कुसुमासवलोल महुर गुमुगुमुगुमिंतगुंजंतदेस भागे, सम्पिण्डिता दृप्तभ्रमरमधुकरीणां वनस कानामेत्र पहकर ति निकरा यत्र स तथा तथा परिलीयमाना अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमास वलोलाः किञ्जल्कलम्पटाः मधुरं गुमुगुमायमानाः गुञ्जन्तश्च शब्दविशेषं विदधानाः देशभागेषु यस्य स तथा ततः कर्मधारयः । अब्भंतरपुष्फफला, बाहिरपचच्छन्ना, पत्तेहि य पुप्फेहि य उच्छन्नपैलिच्छन्ना अत्यन्तमाच्छादिता इत्यर्थः एतानि पुनर्वृक्षाणां विशेषणानि । साउफले मिष्टफले, इतो वनखण्डस्य भूयो विशेषणानि, निरोयए रोगवर्जितः, नाणाविहगुच्छगुम्म मंडवगसोहिए, विचित्तसुह केउ भूए, विचित्रान् शुभान् केतून् ध्वजान् भूतः प्राप्तः, वावि-पुक्खरिणि-दीहियासु य सुनिवेसियर मजालहरए, वापीषु चतुरस्रासु पुष्करिणीषु वृत्तासु पुष्करवतीषु वा दीर्घिकासु च ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि बालगृहाणि यत्र स तथा । पिंडिमनीहारिमं सुगंधिं सुहसुरभिमणहरं च महया गंधद्धर्णि मुंचता, पिण्डिमनिहरिमा पुगलसम्हरूपां दूरदेशगामिनीं च सुगन्धि सद्गन्धिकां शुभसुरनिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा, तां च महता मोचनप्रकारेण विभक्तिव्यत्ययात् महतीं वा गन्ध एव भ्राणिहेतुत्वात् तृप्तिकारित्वाद् गन्धत्राणिस्तां मुञ्चन्त इति वृक्षविशेषणम्, एवमितोऽन्यान्यपि, नाणाविहगुच्छ गुम्म मंडवकघरक सुहसे उ केउबहुला, नानाविधाः गुच्छा गुहमानि मण्डपका गृइकाणि च येषां सन्ति ते तथा, तथा शुभाः सेतवो मार्गा आलवालपाल्यो वा केतवश्च ध्वजा बहुला बहवो येषां ते तथा, ततः कर्मधारयः, अणेगरजाणजोग्गसिबियपवि १. हे १ खं० विना - किसिलयैः जे १, २, ३, लों० ॥ २. तथा सुय° जे २ लों० विना ॥ ३. °विचलियस' खं० । 'विचरियः स जे १ ॥ ४. मिथुनैर्विरचितं लों० खं० हे १ जे २ मु० । मिथुनैर्विरचरितं जे ३ । औपपातिकवृत्तौ 'मिथुनैर्विचरितम्' इति पाठः || ५. 'पलिच्छिन्ना हे १ ॥ ६. जे २, ३ विना – हरिमसुंगंधिसुद्द जे १ । हारिमं सुगंधिसुद' लों० खं०। हारिसुगंधसुह' हे १ ॥ ७, 'धद्धाणिं मुं० हे १ । धधणिं जे ३ खं० ॥ ८. मुक्ता लों० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy