________________
तृतीयं परिशिष्टम्
५०३ सा प्रमुदितजनजानपदा। भाइण्णजणमणूसा, मनुष्यजनेनाकीर्णा सङ्कीर्णा, मनुष्यजनाकीर्णेति वाच्ये रोजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तम्। हलसयसहस्ससंकटवियट्ठलट्ठपनत्तसेउसीमा, हलानां लाङ्गलानां शतैः सहस्रैश्च शतसहस्रैर्वा लक्षैः संकृष्टा विलिखिता विकृष्टं दूरं यावदविकृष्टा वा आसन्ना लष्टा मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् पण्णत्तेति योग्या कृता बीनवपनस्य सेतुसीमा मार्गसीमा यस्याः सा तथा, अथवा सङ्कष्टादिविशेषणानि सेतूनि कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तया, अनेन तजनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तम्। कुक्कुडसंडेयगामपउरा, कुक्कटाः ताम्रचूडाः, पाण्डेयाः षण्डपुत्रकाः षण्ड। एव, तेषां ग्रामाः समूहाः, ते प्रचुराः प्रभूता यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतम्, प्रमुदितो हि लोकः क्रीडाथै कुक्कुटान् पोषयति षण्डांश्च करोतीति। उच्छुजवसालिकलिया, अनेन च जनप्रमोदकारणमुक्तम् , न ह्येवंप्रकारवस्त्वभावे प्रमोदो जनस्य स्यादिति । गो-महिस-गवेलगप्पभूया, गवादयः प्रभूताः प्रचुरा यस्यामिति वाक्यम्, गवेलका उरभ्राः। आधारइत्तचेइयजुवइविविहसण्णिविट्ठबहुला, आकारवन्ति सुन्दराकाराणि यानि चैत्यानि देवायतनानि, युवतीनां च तरुणीनाम , पण्यतरुणीनामिति हृदयम् , यानि विविधानि संनिविष्टानि संनिवेशनानि पाटकास्तानि बहुल नि बहूनि यस्यां सा तथा। उक्कोडिय-गायगंटिभेय-भड-तक्कर-खंडरक्खरहिया, उक्कोडा उत्कोटा, लश्चेत्यर्थः, तया ये व्यवहरन्ति ते उत्कोटिकाः, गात्रात् मनुष्यशरीरावयवविशेषात् कट्यादेः सकाशाद् ग्रन्थि कार्षापणादिपोलिकां भिन्दन्ति आच्छिन्दन्तीति गात्रग्रन्थिभेदाः, भटाः चारभटाः बलात्कारप्रवृत्तयः, तस्कराः, तदेव चौथ कुर्वन्तीत्येवंशीलास्तस्कराः, खण्डरक्षा दण्डपाशिकाः शुल्कपाला वा, एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणामभावमाह । खेमा अशिवाभावात् । 'निरुवहुवा, निरुपद्रुता, अविद्यमानराजादिकृतोपद्रवेत्यर्थः। सुंभिक्खा, सुष्टु मनोज्ञा प्रचुरा भिक्षा भिक्षाकाणां यस्यां सा सुभिक्षा, अत एव पाषण्डिनां गृहस्थानां च वीसत्थसुहावासा, विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा। भणेगकोडीकोटुंबियाइण्णनिव्वुयसुहा, अनेकाः कोट्यो द्रव्यसंख्यायां स्वरूपपरिमाणे वा येषां ते भनेक कोटयः, तैः कौटुम्बिकैः कुटुम्बिभिः भाकीर्णा सङ्कला या सा तथा, सा चासो निर्वृता च सन्तुष्टजनयोगात् सन्तोषवतीति कर्मधारयः, अत एव सा चासौ सुखा च शुभा च वेति कर्मधारयः। नड-नट्टग-जल्ल-मल्ल-मुटिय-लंबय-कहक-पवक-लासक-आइक्खयलंख-मंख-तूणइल-तुंबवीणिय-अणेगतालाचराणुचरिया, नटा नाटकानां नाटयितारो, नर्तका ये नृत्यन्ति, अकोल्ला इत्येके, जल्ला वरत्राखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्लाः प्रतीताः, मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बका विदूषकाः, कथकाः प्रतीताः, प्लवका ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका ये शुभाशुभमाख्यान्ति, लङ्घा महावंशानखेलका, मङ्खाः चित्रफलकहस्ता मिक्षाकाः, तूगइल्ला तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका वीणावादकाः, अनेके च ये वालाचराः तालादानेन प्रेक्षाकारिणः, तैरनुचरिता आसेविता या सा तथा। आरामुजाण-भगड.
१. सङ्कीर्णा नास्ति जे १ हे १ भा० ॥ २." राजदन्तादिषु परम् ।२।२।३१। एषु पूर्वप्रयोगार्ह परं स्यात्। दन्तानां राजा राजदन्तः” इति पाणिनीयव्याकरणसिद्धान्तकौमुद्याम् ॥ ३. °हस्ससंकि? हे १॥ ४. “आल्विल्लोल्लालवन्तमन्तेत्तेरमणा मतोः ८१२।१५९।" इति प्राकृतव्याकरणे। ५. निरुवहवा जे २, ३ । निरुपद्रवा जे १, भां. लो.। हे १ मध्ये पाठः एव नास्ति ।। ६. निरुपद्रवा लो. ॥ ७. सुभिक्षा जे २, ३ विना ॥ ८. °नट्टजल्ल' हे १ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org