SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ शाताधर्मकथाङ्गसूत्रे ‘वण्णओ' आदिग्राह्याः पाठाः तलाय-दीहिय-वप्पिणगुणोववेया, आरमन्ति येषु माधवीलतागृहादिषु दम्पत्या[दी]नि ते आरामाः, उद्यानानि पुष्पादिमवृक्षसङ्घलान्युत्सवादी बहुजनभोग्यानि, अगड त्ति अवटाः कूपाः, तडागानि प्रतीतानि, दीर्घिकाः सारण्यः, वप्पिण ति केदाराः, एतेषां ये गुणाः रम्यतादयस्तैहपपेता युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शंकन्भ्वादिदर्शनादकारलोपे उपपेतेति भवतीति । उन्विद्धविपुलगंभीरखायफलिहा, उन्विद्धं उण्डं विपुलं विस्ती, गम्भीरम् अलब्धमध्यं खातम् उपरि विस्तीर्णे अधःसङ्कटं परिखा च अध उपरि च समखातरूपा यस्याः सा तथा। चक्क-गयमुसुंढि-ओरोह-सयग्धि-जमलकवाडघणदुप्पवेसा, चक्राणि अरषगन्त्रिकाचक्राणि, गदाः प्रहरणविशेषाः, मुसुण्ढयोऽप्येवम् , अवरोधः प्रतोलीद्वारेष्ववान्तरप्राकारः सम्भाव्यते, शतध्न्यो महायष्टयो महाशिला वा याः पातिताः शतानि पुरुषाणां घ्नन्ति, यमलानि समस्थितद्वयरूपाणि यानि कपाटानि धनानि च निश्छिद्राणि तैः दुःप्रवेशा या सा तथा । धणुकुडिलवंकपागारपरिक्खित्ता, धनुः कुटिलं कुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा। कविसीसयवट्टरहय संठियविरायमाणा, कपिशीर्षकैर्वृत्तरचितैः वर्तुलकृतैः संस्थितैः विशिष्टसंस्थानवद्भिर्विराजमाना शोभमाना या सा तथा। अट्टाग्य-चरिय-दार-गोपुर-तोरण-उन्नयसुविभत्तरायमग्गा, भट्टालकाः प्राकारोपरिवाश्रयविशेषाः, चरिका अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः, द्वाराणि भवनदेवकुलादीनाम्, गोपुराणि प्राकारद्वाराणि, तोरणानि प्रतीतानि, उन्नतानि गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः। छेयायरियरइयदढफलिहइंदकीला, छेकेन निपुणेनाचार्येण शिल्पिना रचितो दृढो बलवान् परिवः अर्गला इन्द्रकीलश्च गोपुरावयवविशेषो यस्यां सा तथा। विवणिवणिछेत्तसिप्पियाइण्गनिव्वुयसुहा, विणीनां वणिक्पथानां हट्टमार्गाणां वणिजां च वाणिजकानां क्षेत्रं स्थानं या सा तथा, शिल्पिभिः कुम्भकारादिभिराकीर्णा सुनिर्वृतैः सुखैश्च सुखिभिर्या राजदन्तादिदर्शनात् सा तथा। सिंघाडग-तिग-चउक्क-चच्चर-पणियावणविविहवसुपरिमंडिया, शृङ्गाटकं त्रिकोणं स्थानम् , त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्कं रथ्याचतुष्कमीलकः, चत्वरं बहुरध्यापातस्थानम.पणितानि भाण्डानि. तत्प्रधाना आपणा हद्राः.विविधवेसनि अनेकविधद्रव्याणि. एभिः परिमण्डिता या सा तथा। सुरम्मा अतिरमणीया। नरवइपविइनमहिवइपहा, नरपतिना राज्ञा प्रविकीर्णो गमनागमनाभ्यां व्याप्तः महीपतिपथो राजमार्गों यस्यां सा तथा, अथवा नरपतिना प्रविकीर्णा विक्षिता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा। भणेगवरतुरंग-मत्तकुंजर-रहपहकर-सीय-संदमाणीभाइण्णजाणभुंगा, अनेकैर्वरतुरङ्गैर्मत्तकुञ्जरैः रहपहयर ति स्थनिकरैः शिबिकाभिः स्यन्दमानाभिराकीर्णा व्याप्ता यानैर्युग्यैश्च या सा तथा, तत्र शिबिकाः कुटाकारेण छादिताः जम्पानविशेषाः, स्यन्दमानिकाः पुरुषप्रमाणजम्पानविशेषाः, यानानि शकटादीनि, युग्यानि गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति । विमउलनवनलिणिसोभियजला, विमुकुलाभिः विकसितकमलामिनवामिनलिनीभिः पद्मिनीभिः शोभितानि बलानि यस्यां सा तथा। पंडुरवरभवणसन्निमहिया, पाण्डुरैः सुधाधवलैर्वरभवनैः प्रासादैः सम्यक् नितरां महितेव महिता पूजिता या सा तथा। उत्ताणनयणपेच्छणिज्जा सौभाग्यातिशयादुत्तानः अनिमिषैनयनः लोचनैः प्रेक्षणीया या सा तथा। पासाईया चित्तप्रसत्तिकारिणी दरिसणिज्जा यां पश्यच्चक्षुः श्रमं १. "अचोऽन्त्यादि टि ।११।६४। अचां मध्ये योऽन्त्यः स आदिर्यस्य तत् टिसंज्ञ स्यात् । शकन्ध्वादिषु पररूपं वाच्यम् । तच्च टेः । शकन्धुः, कर्कन्धुः, कुलटा" इति पाणिनीयव्याकरणसिद्धान्तकौमुद्याम् ॥ २. वान्तरप्रकारः जे ३ हे १॥३. °वस्तूनि जे ३ खं० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy