SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् 'वण्णओ'आदिग्राह्याः पाठाः। [ज्ञाताधर्मकथाङ्गसूत्रे साक्षान्न लिखिताः, किन्तु 'वण्णओ' 'जाव' इत्यादिशब्दैः अपरसंकेतैर्वा सूचिताः बहवः पाठा विद्यन्ते। ग्रन्थान्तरेषु दृश्यमाना ईदृशा 'वण्णमो'पदनिर्दिष्टा 'जाव 'शब्दनिर्दिष्टाश्च पाठा आचार्यश्री अभयदेवसूरिभिः ग्रन्थान्तरेभ्य उद्धृत्य ज्ञाताधर्मकथाटीकायां व्याख्याताः तेऽत्र परिशिष्टे व्याख्यया सह प्राधान्येन संगृह्यन्ते।। इदं पुनरत्र ध्येयम्-'वण्णभो' इति शब्देन निर्दिष्टाः पाठा अत्र आदी संगृहीताः। 'जाव' निर्दिष्टाः पाठास्तु तदनन्तरं संगृहीताः] पृ० १ पं० २ वण्णओ। 'वण्णओ'शब्दसूचितः पाठ औपपातिक सूत्रे इत्थमुपलभ्यते-- "ते णं काले णं ते णं समए णं चंपा नाम नयरी होत्था रिद्धस्थिमियसमिद्धा पमुईयजणजाणवया आइण्णजणमणूसा हलसयसहस्ससंकिडविकिट्ठलठ्ठपण्णत्तसेउसीमा कुक्कुडसंडेयगामपउरा उच्छुजवसालिकलिया आयारवंतचेयजुवइविसण्णिविठ्ठबहुला उक्कोडियगायगंठिमेयभडतक्करखंडरक्खरहिया खेमा णिश्वद्दवा सुभिक्खा वीसस्थसुहावासा अणेगकोडिकुडुंबियाइण्णणिव्वुयसुहा णडगट्टगजलमल्लमुष्टियवेलंबयकहगपवगलासगआइक्खगलंखमखतूणइल्लतुंबवीणियअणेगतालायराणुचरिया आरामुजाणअगडतलागदीहियवप्पिणिगुणोववेया ,उन्विद्धविउलगंभीरखायफलिहा चक्कगयमुसुढिओरोहसयग्घिजमलकवाडवणदुप्पबेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवट्टरइयसंठियविरायमाणा अट्टालयचरियदारगोपुरतोरणउण्णयसुविभचरायमग्गा छेयायरियरइयदढफलिहइंदकीला विवणिवणिछेत्तसिप्पियाइण्णणिवुयसुहा सिंघाडगतिगचउक्कचच्चरपणियावणविविहवसुपरिमंडिया सुरम्मा नरवइपविइण्णमहिवइपहा अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुगा विमउलणवणलिणिसोभियजला पंडुरवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिजा पासादीया दरिसणिजा अभिरूवा पडिरूवा।” इति औपपातिकसूत्रे। अस्य व्याख्या औपपातिकसूत्रवृत्तौ आचार्यश्री अभय देवसूरिभिर्विहिता सा तत्र द्रष्टव्या। ज्ञाताधर्मकथाङ्गसूत्रटीकायां तु आचार्यश्रीमभयदेवसूरिभिर्यथा व्याख्या विहिता सा अत्रोपन्यस्यते__"चंपा नाम नगरी होत्थ त्ति अभवत् , आसीदित्यर्थः। ननु चेदानीमपि साऽस्ति, किं पुनरधिकृतग्रन्थकरणकाले, तत्कथमुक्तमासीदिति ? उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता तदानीं नास्तीति । वण्ण मो ति, चम्पानगर्या वर्णकग्रन्थोऽत्रावसरे वाच्यः, स चायम्-ऋद्धस्थिमियसमिद्धा, ऋद्धा भवनादिभिवृद्धिमुपगता, स्तिमिता भयवर्जितत्वेन स्थिरा, समृद्धा धनधान्यादियुक्ता, ततः पश्त्रयस्य कर्मधारयः। पमुइयजणजाणवया, प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावाजनाः नगरीवास्तव्यलोका जानपदाश्च जनपदभवास्तत्रायाताः सन्तो यस्यां १. तदा नास्तीति खं० जे ३ ॥ २. ऋद्धिस्थि जे १ लो । रिदत्यमिय जे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy