________________
११४
ज्ञाताधर्मकथाङ्गसूत्रस्यामुखम् विद्यमाना आचार्य श्री अभयदेवसरिविरचिता ज्ञाताधर्मकथाङ्गटीका इत्यर्थो शेयः । अटीजे० =जे आदर्श विद्यमाना, पटी० =सं १ आदर्श विद्यमाना, आचार्यश्री अभयदेवसूरिविरचिता ज्ञाताधर्मकथाङ्गटीका इत्यर्थो ज्ञेयः। अटीपा० = अभयदेवसूरिविरचितायां टीकायां निर्दिष्टं पाठान्तरमित्यर्थो ज्ञेयः। पृ० = पृष्ठम् , पं० = पक्तिः , टि० = टिप्पनम् । एवमन्येषामपि संकेतानामों यथायोगमवगन्तव्यः ।
धन्यवाद :-अस्या जैनागमग्रन्थमालायाः प्रारम्भे बीजभूताः प्रेरकाश्च स्व० आगमप्रभाकरपूज्यपादमुनिराजश्रीपुण्यविजयजीमहाभागाः। खंभात-जेसलमेर-पत्तनादिनगरस्था एतद्ग्रन्थसंशोधनोपयोगिनी महती हस्तलिखितादर्शसामग्री तैरेव सम्यग् व्यवस्थापिता।
अहमदाबादनगरे लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरस्था तेषां सामग्री पं० दलसुखभाई मालवणिया-डॉ० नगीनभाई जीवणभाई शाह-पं० अमृतलाल मोहनलालभोजकमहोदयानां साहायकाल्लुब्धा।
___ मु० प्रनेः सम्पादकैः स्व० पूज्यपादागमोद्धारकसागरानन्दसूरीश्वरैर्महता परिश्रमेण जैनागमादिविशालग्रन्यराशेः संशोधन प्रकाशनं च विधाय महानुश्कारो विहितः।
सं १, हे १, २, ३, ४ प्रतयः पाटणनगरे पूर्व 'संघवीपाडाभण्डारस्य' व्यवस्थापकानां 'स्व० सेतिलल छोटालाल पटवा' इत्येतेषां पुत्राणाम् , सम्प्रति श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरस्य व्यवस्थापकानां 'डॉ० सेवंतिलाल मोहनलाल' तथा 'व्रजलाल त्रिकमलाल' शाह इत्येतेषां च सौजन्यालब्धाः।
ला. १, २, ३, ४ प्रतयोऽन्यापि च तत्रत्या सामग्री अहमदाबादनगरे लालभाई-दलपतभाईभारतीयसंस्कृतिविद्यामन्दिरस्य व्यवस्थापकानां सौजन्यालब्धाः ।
खं० १, २, ३ प्रतीनां माइक्रोफिल्मरूपं (Micro-film) प्रतिबिम्ब खम्भातनगरस्थश्रीशान्ति नाथतालपत्रीयग्रन्थभण्डारव्यवस्थापकानां तथा 'पं० छबीलदास केसरीचंद' इत्येतेषां सौजन्याल्लब्धम्।
जे० १, २, ३ प्रतीनां माइक्रोफिल्मरूपं (Micro-film) प्रतिबिम्ब जेसलमेर-लोद्रवातीर्थव्यवस्थापकानां सौजन्यादौदार्यात्, सेवामन्दिर (रावटी, जोधपुर) सञ्चालकानां श्रीजौहरीमलपारेखमहाशयाना साहायकाच्च लब्धम् ।
श्रीनहावीर जैन विद्यालयस्य कार्यवाहकमहानुभावैर्जिनागमेषु परमभक्त्याङ्गीकृतमिदं विपुलधनराशिव्ययादिसाध्यं जैनागमानां प्रकाशनकार्यम्। तैरेव चैतत्संशोधनद्वारा जिनवचनाराधनाया अवसरोऽयं मह्यं प्रदत्त
श्रीन हावीरजैन विद्यालयीयस्य श्री जिनागमट्रस्टस्य व्यवस्थापकैः श्री कान्तिभाई डाह्याभाई कोरा इत्येभिर्महानुभावैः सर्वाऽपीयं मुद्रण-प्रकाशनादि कार्यव्यवस्था महत्या श्रुतभक्त्या परमेग सौजन्येन कौशल्येन महता परिश्रमेग धैर्येग च पारं प्रापिता।
महानुभावः श्री डॉ. नगीनदास जीवणभाई महोदयैरस्यामुखस्य आङ्ग्लभाषानुवादः सम्यग् विहितः। __ मोज मुद्रणालयस्याधिरतिभिः कार्यवाहकैश्च परमेण सौजन्येन मुद्रितोऽयं ग्रन्थः । सीसकाक्षरसंयोजक(=कंपोझीटर)वर्गेगापि महता श्रमेण कष्टेन च मुद्रणकार्यमिदं पारं प्रापितम् ।।
मदीयमातृध्वसुः साध्वी जीश्री लाभश्रियः शिष्यायाः साध्वीश्रीकञ्चनश्रियः शिष्यायाः पुत्र्याश्च साध्वीश्री लावण्यश्रियः परिवारेण शब्दसूच्यात्मकं प्रथमं परिशिष्टं निर्मितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org