________________
२१२
शाताधर्मकथाङ्गसूत्रस्यामुखम् क्वचिद् मूलेऽपि दर्शित एव, टीकायां तु सर्वत्र तत्तदध्ययनान्ते कुतश्चिदुद्धताभिरुपनयगाथाभिर्दर्शित एव । एताश्च सर्वा अपि उपनयगाथाः पञ्चमे परिशिष्टेऽस्माभिः संगृहीताः।
षष्ठे तु परिशिष्टे पाठशुद्धथादिकं यत् किमपि विशेषतो दर्शयितव्यं तद् दर्शितमस्ति ।
वाचना-अस्य वाचनाद्वयमासीत् , तत्र बृहता वाचना अनुसृता आचार्य श्रीमभयदेवसूरिभिः, एतच्च तैष्टीकायां स्पष्टमेवावेदितम, दृश्यतां पृ० ३ टि० १, पृ० १० टि० २, पृ० १५ टि० ४। सम्प्रति ये आदर्शा दृश्यन्ते ते बृहत्तरवाचनानुगता इति प्रतिभाति। स्थाने स्थाने वाचनान्तरगताः पाठभेदाष्टीकायां निर्दिष्टाः। अस्माभिरपि टिप्पणेषु त उपन्यस्ताः। ____टीका- अस्य सूत्रस्य विक्रमसंवत् ११२० मध्ये नवाङ्गीवृत्तिद्भिराचार्यश्री अभयदेवसूरिभिर्वि रचिता एका वृत्तिरुपलभ्यते। अन्यत् किमपि चूर्णि-वृत्त्यादिकमस्य संस्कृतभाषानिबद्धं प्राकृतभाषानिबद्धं वा विवरणं नोपलभ्यते, अभयदेवसूरीणां समयेऽपि अन्यत् किमप्यस्य विवरणमासीदिति न ज्ञायते, तैः कुत्रापि तदनिर्देशात् । विक्रमसंवत् १५९६ मध्येऽस्य लक्ष्मीकल्लोलगणिना वृत्तिय॑रचि इति श्रूयते, न वस्माभित्रैषा वृत्तिः क्वचित् । __यत् किस पे विशेषतो ज्ञातव्यं वक्तव्यं वा तद गूर्जरभाषानिबद्धायामस्य प्रस्तावनायां निर्दिष्टमस्माभिः, अतो जिज्ञासुभिः तत्र द्रष्टव्यम्।
आदर्शमरिचयः-संशोधन-सम्पादनाथमाल.म्बता हस्तलिखितादर्शा द्विविधाः-तालपत्रलिखिताः कागजपत्रलिखिताश्च। एतेषां विस्तरेण परिचयोऽस्माभिः गूर्जरभाषामय्यां प्रस्तावनायां लिखितस्तत एवावगन्तव्यः। अत्र तु संक्षेपेणैव किमपि लिख्यते ।
तालपत्रलिखिता आदर्शाः
खं १ = खंभातनगरस्थोऽयमादर्शः। Catalogue of Palm-leaf-Mss. in the शान्तिनाथजैनभण्डार, Cambay खंभात Part I, Gaekwad's Oriental Series, Baroda No. 135 इति सूचिपत्रानुसारेण अस्य क्रमाङ्कः १२।
खं २ = अयमपि खंभातनगरस्थ आदर्शः। उपरिनिर्दिष्टसूच्यनुसारेण अस्य क्रमाङ्कः ११ । खं ३ = अयमपि खंभातनगरस्थ आदर्शः। उपरिनिर्दिष्टसून्यनुसारेण अस्य क्रमाङ्कः १३ ।
जे १ = जेसलमेरुदुर्गस्थोऽयमादर्शः। जेसलमेरुदुर्गस्थहस्तप्रतिसंग्रहगतानां संस्कृत-प्राकृतभाषाfaragraf fryri qanet New Catalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection, Published by L. D. Institute of Indology. Ahmedabad 9 इत्यनुसारेण अस्य क्रमाङ्कः १७ ।
जे २ = उपरिनिर्दिष्टसूज्यनुसारेण अस्य क्रमाङ्कः १८ । अयमपि जेसलमेरुदुर्गस्थ आदर्शः ।
जे ३ = उपरिनिर्दिष्टसूच्यनुसारेण अस्य क्रमाङ्कः १९। अत्र केवलं टीकैव वर्तते । अयमपि जेसलमेरुदुर्गस्थ आदर्शः।
भां० भाण्डारकर ओरिएण्टल रिसर्च इन्स्टीट्यूट, पुणे ४ Bhandarkar Oriental Research Institute, Pune 4 (महाराष्ट्र) मध्ये विद्यमान आदर्शः। पृ०१-१६५ मध्येऽत्र शाताधर्मकथासूत्रं वर्तते, पृ १६६-३०२ मध्ये तु आचार्यश्री अभयदेवसूरिविरचिता ज्ञाताधर्मकथाटीका वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org