SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रस्यामुखम् अदर्शनीय इत्यस्माकं पद्धतिः पूर्वमासीत् । तदनुसारेण द्वितीयस्याध्ययनस्य पृ० ८१ पं० १० पर्यन्तमस्माभिः तत्तदङ्कानां स्थाने संकारं विधाय पाठा उपन्यस्ताः। तदनन्तरं तु '२' आदयोऽङ्का यथा हस्तलिवितादर्श विलोक्यन्ते तथैव प्राय उपदर्शिताः, यच्च किमपि कुत्रचिद् वक्तव्यं तत् तत्र तत्र टिप्पणेषु निर्दिष्टमस्माभिः । दृश्यतां पृ० ४ टि० ४, पृ० ५ टि० ४, पृ० ८१ टि० १४ । पद्धतिः-प्राचीन शास्त्राणां संशोधने सम्पादने चास्माकं यादृशी पद्धतिः तद्विषये स्थानाङ्गसूत्रस्यामुखे (पृ०४२) विस्तरेणास्त्राभिावर्णितमिति जिज्ञासुभिस्तत् तत्रैव विलोकनीयम् । परिशिष्टानि -ग्रन्थान्ते षट् परिशिष्टान्यत्रायोजितानि अस्माभिः । तत्र प्रथमे परिशिष्टे ज्ञाताधर्मकथान्तर्गतानां विशिष्टानां शब्दानां सूचिर्वर्तते । द्वितीये परिशिष्टे तदन्तर्गतानां गाथार्धानामकारादिक्रमो वर्तते । ___ अस्मिन ग्रन्थे नगरी-चैत्य-राजादीनां यत्रोल्लेखो वर्तते तत्रानेकेषु स्थानेषु 'वण्णमओ' इत्येव लिखितम् , सूत्रान्तरेषु नगर्यादिवर्णनपरो यो विस्तृतः पाठो दृश्यते सोऽत्रापि पठनीय इत्येतत्सूचनार्थ 'वण्णओ' शब्दस्य प्रयोगः सूत्रेषु पाचुर्येणोपलभ्यते, इयं हि सूत्राणां लेखने कण्ठस्थीकरणे च लाषवार्थ सूत्रलेखकानां ग्रन्थं संक्षेप्तुं शैली। अयं च तत्र तत्र 'वण्णओ' शब्देन ग्राह्यः पाठष्टीकाकृद्भिः प्राय उपदर्शित एव व्याख्यया सह, ईदृशा 'वण्गो ' शब्दग्राह्याः पाठाः सूत्रान्तरेभ्यष्टीकातश्चोद्धृत्य तृतीये परिशिष्टे विस्तरेण दर्शिताः। एवं प्रारम्भिकमन्तिमं च भाग निर्दिश्य तन्मध्यगतः पाठः पुनरुक्तिवारणाय लाघवार्थ च जावशब्देन शास्त्रेषु पात्रुर्येग सूच्यते। अयं च जावशन्दग्राह्यः पाठो यत्र सूत्रान्तरादनुसन्धेयः तत्र टीकाकृद्भिः सूत्रान्तरेभ्य उद्धृत्य व्याख्यया सह टीकायामुपदर्शितः। ईदृशा 'जाव' शब्दग्राह्यपाठा अपि अस्मिन् तृतीये परिशिष्ट प्राय उपदर्शिताः। ये स्वनवधानादिनाऽस्माभिस्तृतीयपरिशिष्टे नोपदर्शिताः ते प्रायश्चतुर्थे परिशिष्टेऽपि संगृहीताः। चतुर्थ परिशिष्टं विशेषतो 'जाव' शब्दयाद्यपाठोपदर्शनार्थमेव। तत्रादौ यावन्तो 'जाव'शन्दा अस्मन् ग्रन्थे वर्तन्ते तेषां सर्वेषामपि प्रायः तत्तत्पृष्ठपङ्क्त्यादिकं निर्दिष्टम्। अनन्तरं 'जाव' शब्दग्राह्यपाठाः कुत्र कुत्र गवेषणीया इति दर्शितम् । 'जाव'शब्देन ग्राह्यः पाठः क्वचित् पूर्वनिर्दिष्ट एव भवति, कचित् पूर्वनिर्दिष्टः पाठो विभक्तिविपरिणामेन ग्राह्यो भवति, कचित् पूर्वनिर्दिष्टपाठस्य केवलं प्रस्तुतपाठोपयोग्येवांशो ग्राह्यो भवति, क्वचित् पूर्वनिर्दिष्टपाठस्याशयं ज्ञात्वा ततःप्रस्तुतपाठोपयोगिनमेवांशं समादाय 'जाव' शब्दस्य संगतिः कर्तव्या भवति । __सामान्यतः पूर्वोत्तरपदयोर्मध्यवर्ती पाठ एव जावशब्देन गृपते, तथापि क्वचित् पूर्वपदात् पूर्वतरः पाठोऽपि जावशब्दग्राह्योऽस्ति, यथा पृ० २५० पं० ७ इत्यत्र 'सुभेणं परिणामेणं जाव' इत्यस्मिन् पाठे जावशन्देन 'सुभेगं परिणामेणं' इति पाठात् प्राक्तनः 'लेस्साहिं विसुज्झमागीहिं अज्झवसाणेणं सोहणेणं' [पृ०६३ पं०१८] इति पाठो ग्राह्योऽस्ति। कचिदुत्तरपदात् परतरः पाठोऽपि 'जाव'शब्दग्राह्योऽस्ति, यथा पृ० १९८०१० इत्यत्र 'उन्विग्गा वा जाव उस्सया वा' इति लिखितं तत्र पृ० १९८६०२ इ विद्यमानम् 'उन्विग्गा वा उस्सया वा उप्प्या वा' इति पाठमनसन्धाय 'जाव उस्सुया वा' इत्यत्र 'जाव'शब्देन 'ठस्सुथा वा' इत्यतः परतरः 'उप्पुया वा' इति पाठो ग्रहीतव्यः। एवं च 'जाव'शन्देन माह्यः पाठः क्वचित् क्वचित् प्रसङ्गानुसारेण स्वधियाभ्यूह्योऽपि भवति। सर्वस्य प्रथमश्रुतस्कन्धस्य ज्ञातत्वाद् उदाहरणरूपत्वाद् दार्टान्तिकार्थोऽपि दर्शनीयः, स च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy