________________
११०
ज्ञाताधर्मकथाङ्गसूत्रस्थामुखम् नन्दीसूत्रे समवायाङ्गसूत्रे चाभिहितम् । पैदपरिमाणं तु श्वेताम्बरमते ५७६००० इति, दिगम्बरमते तु ५५६००० इति ।
एतत् सर्वमस्माभिर्गुर्जरभाषामय्यामस्य प्रस्तावनायां (पृ० २-९) विस्तरेण तत्त्पाठोपदर्शनपूर्वकं चर्चितम् , अतो विस्तरजिज्ञासुभिस्तत्रैव विलोकनीयम् ।।
___ सम्प्रति प्रथमश्रुतस्कन्धे एकोनविंशतिं ज्ञातानि द्वितीयश्रुतस्कन्धे काश्चन कथाश्च विहाय सर्वमन्यत् कथापरिमाणं कालाद्यनुभावेन व्यवच्छिन्नम् । पदपरिमाणमपि सम्प्रति सार्धपञ्चसहस्रदेशीयमेव संज'तमस्ति, दृश्यतां पृ० ३७० टि० ९।
विषयः शैली व-विविधष्टान्तद्वारेण तीव्रतया संसारवैराग्यजनकोऽयं ग्रन्थः। शैल्यप्यस्य मुग्न्यतया 'गद्यात्मिका, तथापि क्वचित् क्वचित् पद्यान्यपि वर्तन्ते । एवं चात्र ५७ संख्याकानि पद्यानि सन्ति । विविधालङ्कारपूर्णा दीर्घतरसामासिकपदोपशोभिता चास्य अर्धमागधी भाषा अत्यन्तं रोचका वर्तते । कथानामाकरभूतोऽयं ग्रन्थः।
अध्ययनानि-प्रथमे श्रुतस्कन्धे एकोनविंशतिरध्ययनानीति प्रागेवाभिहितमस्माभिः। दिगम्बरा अपि अत्र एकोनविंशतिरध्ययनानीत्येव कथयन्ति तथापि तैर्निर्दिष्टानि अध्ययननामानि श्वेताम्बगभिमननामभ्यः कथञ्चद् भिन्नानि, दिगम्बराभिमतं तत्तदध्ययनान्तर्गतकथावर्णनं तु श्वेताम्बगभिमतवर्णनात् सर्वथा भिन्नप्रायमेव । एतच्चास्माभिर्जरभाषात्मिकायामस्य प्रस्तावनायां विस्तरेण दिगम्बराभिमतग्रन्थान्तर्गतपाठोल्लेखपूर्वकं दर्शितम् , दृश्यतां प्रस्तावना पृ० ९-१० । श्वेताम्बराभिमतानि अध्ययननामानि अस्मिन् ग्रन्थे पृ० ६ पं० ११-१५ मध्ये वर्तन्ते, तद्यथा
१ उक्खित्तणाए, २ संघाडे, ३ अंडे, ४ कुम्मे, ५ सेलगे, ६ तुबे, ७ रोहिणी, ८ मल्ली, ९ मायंदी, १० चंदिमा, ११ दावद्दवे, १२ उदगगाए, १३ मंडुक्के, १४ तेयली, १५ णंदिफले, १६ अवरकंका, १७ आतिण्णे, १८ सुसुमा, १९ पुंडरीए ।
अनिर्देशः-हस्तलिखितादर्शेषु केषाञ्चित् पदानां पुरतो लाघवाय २, ३, ४ इत्यादयोऽङ्का लिखिता दृश्यन्ते । तत्र पूर्वापरावलोकनेन तत्तदयाह्यः पाठः स्वधिया योजनीयो भवति, यथा 'मसणं ४' इति यत्र लिखितं तत्र 'असणं पाणं खाइमं साइम' इति चत्वारि पदानि ग्रहीतुम् असणं' इत्यस्य पुरः '' इति अङ्कः सूत्रादर्शषु लिखितो दृश्यते, एवमन्यत्रापि यथायोगं वेदितव्यम् । '२' इत्यङ्केन तु कचित् पूर्ववर्ति पदमेव द्विरावर्तनीयं भवति, यथा भोलोएमाणीओ २ भाहिंडमागीभो २ पृ. २३ पं. ९] इत्यत्र '२' इत्यङ्केन 'ओलोएमाणीओ भोलोएमाणीओ माहिंडमाणीओ माहिंडमाणीओ' इति पाटो ग्राह्य इति सूच्यते, क्वचित्तु '२' इत्यकेन पूर्वनिर्दिष्ट एव पाठः किञ्चित् परिवर्तनं विधाय ग्राह्य इति सूच्यते । एतादृशेषु स्थानेषु तत्तदानां स्थाने संस्कार विधाय विवक्षितः पाठोऽध्येतॄणां सुगमतायै
२. 'पद'शब्देन किं ग्राह्यमित्यत्र नैकमत्यम् । 'यत्रार्थोपलब्धिस्तत् पदम्' इति समवायाजवृत्त्यादिषु
श्वेताम्बरग्रन्थेषु उल्लिखितं दृश्यते। “पदं तु अर्थसमाप्तिः” इत्याधुक्तिसद्भावेऽपि येन केनचित् पदेन अष्टादशपदसहस्रादिप्रमाणा भाचारादिग्रन्था गीयन्ते तदिह गृह्यते, तस्यैव द्वादशाङ्गश्रुतपरिमाणेऽधिकृतत्वात् श्रुतभेदानामेव चेह प्रस्तुतत्वात् । तस्य च पदस्य तथाविधाम्नायाभावात् प्रमाण न ज्ञायते” इति प्रथम कर्मग्रन्थस्वोपज्ञटीकार्या श्वेताम्बराचार्यदेवेन्द्रसूरिभिरभिहितम् [गाथा ७] ।
दिगम्बरग्रन्थेषु तु अन्यथा उल्लेखा दृश्यन्ते, दृश्यतामत्रैव प्रस्तावनायां पृ० ८-९ तथा स्थानाङ्गस्थामुखे पृ० ४३-४४ टि. १।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org