________________
॥ श्री सिद्धाचलमण्डन-श्री ऋषभदेवस्वामिने नमः॥
॥श्री शङ्खश्वरपार्श्वनाथाय नमः॥ ॥श्री महावीरस्वामिने नमः॥ ॥श्री गौतमस्वामिने नमः॥
आवार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः। आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः। सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपन्नेभ्यो नमः।
आमुखम्
परमपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भवनविजयजीतातपादानां च कपया द्वादशाङ्गयां षष्ठस्य श्री ज्ञाताधर्मकथासूत्रस्य आगमप्रभाकरपूज्यपादमुनिराजश्रीपुण्यविजयजीमहाराजव्यवस्थापितजेसलमेर -पत्तन- स्थम्भनतीर्थ-लींबडीप्रभृतिनगरस्थसंग्रहान्तर्गतहस्तलिखितप्राचीनविविधादर्शाद्यनुसारेण संशोधनं विधाय आगमभक्तानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः।
विरचयितारः-अस्य सूत्रस्य रचना भगवतो महावीरस्वामिनः शिष्येण पञ्चमगणभृता सुधर्मस्वामिना विहिता इति श्वेताम्बराचार्याणामभिमतम् , प्रथमेन गणभृता भगवता इन्द्रभृतिना गौतमस्वामिना विहिता इति तु दिगम्बराचार्याणामभिमतम् । एवं च २५४५ वर्षेभ्यः प्रागेतत् सूत्रं विरचितम् इति उभयेषां श्वेताम्बर-दिगम्बराणां सम्मतम्।
नामार्थः-अस्य प्राकृते 'णायाधम्मकहाओ' इति संस्कृते च 'ज्ञाताधर्मकथाः' इति नाम श्वेताम्बराचार्याणां सम्मतम् , दिगम्बराचार्याणां तु प्राकृते 'णाहधम्मकहा' इति संस्कृते च'ज्ञातृधर्मकथा' इति नाम अभिप्रेतम् ।
अस्य द्वौ श्रुतस्कन्धौ, प्रथमे श्रुतस्कन्धे एकोनविंशतौ अध्ययनेषु एकोनविंशतिर्शातानि उदाहरणानि, द्वितीये श्रुतस्कन्धे दशसु अध्ययनेषु अनेका धर्मकथाः, अतोऽस्य ज्ञाताधर्मकथा इति नाम इति श्वेताम्बराचार्यः। नाथस्य त्रिलोकनाथस्य तीर्थकरस्य धर्मकथा, ज्ञातॄणां वा जिन-गणधरादीनां धर्मकथा इति 'णाहधम्मकहा, ज्ञातृधर्मकथा वा' इति तु दिगम्बराचार्याणामभिप्रायः ।
परिमाणम् -अस्मिन् सूत्रे अर्धचतुर्थाः कथानककोट्यो भवन्तीति ३५०००००० कथापरिमाणं
१. "अनुयोगद्वारविशेषस्योपक्रमस्य प्रतिमेदरूपं प्रक्रान्तशास्त्रस्य वीरजिनवरेन्द्रापेक्षयाऽर्थत आत्मा
गमत्वं तच्छिष्यं तु पञ्चमगणधरसुधर्मस्वामिनमाश्रित्य अनन्तरागमत्वं तच्छिष्यं च जम्बूस्वामिनम-- पेक्ष्य परम्परागमता प्रतिपिपादयिषुः, अथवा अनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य मेदभूताया उपोद्धा तनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारस्वभावं प्रस्तुतग्रन्थस्यार्थतो महावीरनिर्गतत्वमभिधित्सुः सूत्रकारः ते गं काले णमित्यादिकमुपोद्घातग्रन्थं तावदादावाह।” इति ज्ञाताधर्मकथाङ्गटीकायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org