________________
( ८८ )
द्वयहीनास्ते परीहारे २२, नवाबयोगान्त्यलोभाः सूक्ष्मे १०, अंत्यलोभनौदारिकमिश्रकार्मणयुक्ता यथाख्याते ११, नवनोकषायनवाद्ययोगाष्टांत्यकषायत्र सासंयमोनाखिलासंयमाः संयमासंयमे ३७, असंयमे आहारकद्वयहीनाः सर्वे ५५, चक्षुर्दर्शनाचक्षुर्दर्शनयोः सर्वे ५७, ज्ञानत्रयभाविनोऽवधिदर्शने ४८, केवलज्ञानभाविनः केवलदर्शने ७, आद्यलेश्यात्रये आहारकद्वयहीनाः ५५, अंत्यश्यात्रये सर्वे ५७, भव्ये सर्वे ५७, अभव्ये आहारकद्वयहीनाः ५५, मिथ्यात्वपंचकानं तानुबंधिचतुष्टयाहारकद्वयहीना औपशमिके ४६, आहारकद्वयाधिका वेदकक्षायिकयोः ४८, मिथ्यात्वपंचकाहारकद्वयहीनाः सासने ५०, मिथ्यात्वपंचकाहारकद्वयानंतानुबंधि वैक्रियिकौदारिकमिश्रकार्मणहीनाः मिश्रे ४३, आहारकद्वयहीनाः मिथ्यात्वे ५०, संज्ञिनि सर्वे ५७, असंज्ञिनि औदारिकद्वयासत्यमृषाभाषेतरयोगहीनाः ४५, आहारके कार्मणहीना: ५६, अनाहारके कार्मणहीनस कलयोगहीना : ४३ ।
उत्तराः प्रत्ययाः प्रोक्ताः मार्गणास्वखिलास्विति । इदानीमिति कथ्यन्ते ते गुणेषूत्तरोत्तराः ॥ ३७ ॥ जघन्याः प्रत्ययाः प्रोक्ता द्वयोर्दर्शनवदद्वयोः । एकत्राष्ट त्रये पंच द्वये द्वावेककत्रये ॥ ३८ ॥ अष्टादशादितः सप्तदशषोडशकं द्वयोः । चतुर्दश त्रये सप्त त्रिद्वयेकैकैककाः क्रमात् ॥ ३९ ॥
१ असंज्ञिनः स्त्रीपुंवेदोदयाभावात् कार्माणयोगस्य सद्भावाच्च ४४ प्रत्यय सद्भावो ज्ञायते इति विचारणीयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org