________________
तत्प्रकारः सूच्यते----
स्त्रीपुंवेदौदारिकद्वयाहारकद्वयोना नरकगत्यां ५१, वैकियिकद्वयाहारकद्वयोनास्तिर्यग्गत्यां ५३, वैक्रियिकद्वयोनाः नृगत्यां ५५, नपुंसकवेदौदारिकद्वयाहारकद्वयोना देवगत्यां ५२, रसनघ्राणचक्षुःश्रोत्रमनः स्त्रीपुंवेदसर्वमनोवचोयोगवैक्रियिकाहारकद्वयोना एकाक्षेषु ३८, त एवांत्यभाषारसनाभ्यां सह द्वयक्षे ४०, घ्राणेन सह व्यक्षे ४१, चक्षुषा सह चतुरक्षे ४२, त्रसपंचाक्षयोः सर्वे ५७, एकाक्षोक्ताः स्थावरेषु ३८, विमुच्याहारकद्वयं शेषेषु निजं निजं हित्वा शेषहीनाः ४३, संज्वालस्त्रीनपुंसकद्वयहीननोकषायनिजयोगा आहारकद्वये *१२, स्त्रीपंढवेदयोराहारकद्वयहीनाः ५५, पुंवेदे सर्वे ५७, निजहीनान्यकषायद्वादशकोना क्रोधादिषु ४५, मत्यज्ञानश्रुताज्ञानयोराहारकद्वयहीनाः ५५, वैक्रियिकौदारिकमिश्रकार्मणाहारकद्वयोना विभंगे ५२, ज्ञानत्रये मिथ्यात्वपंचकानंतानुबंधिहीनाः ४८, नवाद्ययोगसंज्वालस्त्रीषंढहीननोकषाया मनःपर्यये २०, आद्यंतमनोवचनौदारिकद्वयकार्मणाः केवलज्ञाने ७, संज्वालनोकषायवेक्रियिकद्वयौदारिकमिश्रकार्मणहीनैकादश योगाः सामायिकछेदोपस्थापनयोः २४, आहारक__ १ अनुभयवचनयोगः । २ योगेषु । ३ आहारकयोगिनाम् न स्त्रीनपुंसकवेदोदयः तदुक्तं छहगुणं वा हारे ण थीणतियसंढथीवेदं ॥३१६॥ गो.क. । ४-५ स्त्रीवेदादिमार्गणासु स्वान्यवेदद्वयोदयाभावात् ५५ स्थाने ५३, ५७ स्थाने च ५५ भवितव्यम् अथवा द्रव्य वेदापेक्षया ज्ञातव्येयम् रचना किन्तु न वेदमार्गणायाम द्रव्यवेदस्यापेक्षाऽस्माभिः कुत्रचिदृष्टेतिसर्वविचारणीयम् । ६ वैक्रियकामिश्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org