________________
(८४) नानकसमयेप्येते नानकप्राणभागिनाम् । गुणस्थानेषु सर्वेषु प्रथमाः प्रत्यया मताः ॥२१॥ तदित्थम्-४।३।३।३।३।२।२।२।२।२।१।१।११० । उत्तरप्रत्ययानाहआद्यं सांशयिकं ज्ञेयं प्रतीपाज्ञानिके परे । विनयैकान्तिके चान्ये मिथ्यात्वं पंचधा मतम् ॥ २२ ॥ सर्वज्ञेन विरागेण जीवाजीवादि भाषितम् । सत्यं न वेति संदेहस्तत्र सांशयिकं स्मृतम् ॥ २३ ।। केवली कवलाहारः सग्रन्थो मोक्षसाधकः । जीवविध्वंसनं धर्मो विपरीतमिदं विदुः ॥ २४ ॥ हिताहितापरीक्षायामाज्ञानिकमुदाहृतम् । सर्वेषु देवधर्मेषु साम्यं वैनयिकं मतम् ॥ २५॥ इदमेवेत्थमेवेति सर्वथा धर्मधर्मिणोः । ग्राहिका शेमुषी प्राज्ञेरैकान्तिकमुदाहृतम् ॥ २६ ॥ जीवानां हिंसने षण्णामिन्द्रियाणामयंत्रणे । द्वादशाविरतिभैदा गदिता गतकल्मषैः ।। २७॥ चत्वारो मनसा योगाश्चत्वारो वाचिका मताः। कोविदैः कायिकाः सप्त योगाः पंचदशेत्यतः ॥ २८ ॥ तैजसेन यतः कर्म बध्यते न न जीर्यते । तैजसो न ततो योगो गीयते योगवेदिभिः ॥ २९॥ सदा निरुपभोगस्य क्षण एको जघन्यतः। उक्ता प्रकर्षतस्तस्य पदक्षष्टिः सागरा स्थितिः ॥३०॥ कषायाः षोडश प्राज्ञै!कषाया नवेरिताः । ईषद्भेदो न भेदोऽस्ति कषायाः पंचविंशतिः ॥३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org