________________
(८३)
गुणानां सप्तके योगा नव सप्त मताः जिनः । सयोगे योगनिर्मुक्ते न योगा योगिपूजिते ॥१३॥ १३।१३।१०।१३।९।११।९।९।९।९।९।९।७०।
मिथ्याक्सासनाव्रतेषु त्रिष्वाहारकद्वयहीनाः त्रयोदश, मिश्रेमिश्रद्वयाहारकद्वयकार्मणहीना दश, प्रमत्ते वैक्रियिकद्वयौदारिकमिश्रकार्मणहीना एकादश, देशसंयताप्रमत्तादिषु सप्तसु वैक्रियिकद्वयाहारकद्वयौदारिकमिश्रकार्मणहीना नव, आयंतमानसद्वयाद्यंतवचनद्वयौदारिकद्वयकार्मणलक्षणा योगिनि सप्त योगाः । योगिन्यौदारिको दंडे मिश्रो योगः कपाटके । कार्मणो जायते तत्र, प्रतरे लोकपूरणे ॥ १४ ॥ मिथ्यात्वाविरती योगः कषायः कथितो जिनैः । चत्वारः प्रत्ययाः मूले कर्मबन्धविधायिनः ॥ १५ ॥ उत्तराः प्रत्ययाः पंच द्वादश प्रत्ययातिगैः । जिनैः पंचदश प्रोक्ताः क्रमतः पंचविंशतिः ॥१६॥ सामान्येन विशेषेण मौलिकाः प्रत्ययाः बुधैः । गुणस्थानेषु सर्वेषु योजनीया यथागमम् ॥ १७॥ मिथ्यात्वयुजि चत्वारो निर्मिथ्यात्वा गुणत्रये । विरत्यविरतिमिश्रा देशे द्वौ गुणपंचके ।। १८ ॥ गुणानां त्रितये योगः केवलः प्रत्ययः स्मृतः । अन्तिमः प्रत्ययातीतः कर्मकक्षनिकर्तनः ॥१९॥ दशत्रसविरत्याढ्या स्थावराविरतिर्मता । सार्द्ध योगकषायाभ्यां संयतासंयते त्रयः ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org