SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ (८२) द्वौ चतुर्यु नववेकः समस्ताः संति संज्ञिनि । जीवस्थानेषु विज्ञेया योगा योगविशारदैः ॥ १० ॥ तदित्थम्---९, १ । ४, २ । १, १५ । तत्प्रकारः सूच्यते-- द्वयोरेकेन्द्रिययोः पर्याप्तयोरौदारिक एकः, सप्तस्वपर्याप्तेध्वौदारिकमिश्र एकः इति । समुदायेन नवस्वेको योगो द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिषु पर्याप्तेषु चतुर्ष द्वौ कायवाग्योगौ, संज्ञिनि पर्याप्ते पंचदश योगाः । पंच षट् सप्त ज्ञेया द्वौ द्वित्रिसप्तद्विषु क्रमात् । गुणस्थानेषु विद्वद्भिरुपयोगा भवंत्यमी ॥ ११ ॥ त इत्थम्-५।५।६।६।६।७७७७७७७२२। __तत्राज्ञानत्रयचक्षुरचक्षुर्दर्शनानि मिथ्यादृष्टिसासनयोर्द्वयोः प्रत्येकं पंच, ज्ञानत्रयचक्षुरचक्षुरवधिदर्शनानि मिश्रासंयतदेशसंयतेषु त्रिषु षडेकशः, परं मिश्रे ज्ञानान्यज्ञानमिश्राणि, चत्वारि ज्ञानानि त्रीणि दर्शनानि सप्तसु यतिषु सप्तैकशः, केवलज्ञानकेवलदर्शने द्वयोः केवलिनोः प्रत्येकं द्वावुपयोगौ । *३, २ । ३, २ । ३,३ । ३,३ । ३,३ । ४, ३ । ४,३ । ४, ३ | ४, ३।४, ३।४, ३।४,३। सयोगायोगयोः १, १ । १, १।। आद्ययोरवते योगा विज्ञातव्यास्त्रयोदश।। दश मिश्रे प्रमत्ताख्य एकादश विचक्षणैः ॥ १२ ॥ १ अत्र प्रथमतः ज्ञानोपयोगसंख्यांका पश्चाद्दर्शनोपयोगसंख्यांकाः । एवं सयोगायोगयोरपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy