SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ (८१) बैंक्रियिकमिश्रत्रिकोनाः, यथाख्याते वैक्रियिकद्वयाहारकद्धयोनाः, परिहारसूक्ष्मसांपरायदेशसंयमेषु मनोवचनौदारिकयोगा नव, त्रयोदशासंयमे निराहारकद्वयाः, चक्षुर्दर्शने मिश्रत्रिकहीना द्वादश, अचक्षुरवधिदर्शनयोः सर्वे, केवलदर्शने केवलज्ञानोक्ताः, कृष्णनीलकापोतासु निराहारकद्वयास्त्रयोदश, तेजःपद्मशुक्लासु सर्वे, भव्ये सर्वे, अभव्ये निराहारकद्वयास्त्रयोदश, औपशमिकसम्यक्त्वसासनमिथ्यादृष्टिषु आहारकद्वयहीनास्त्रयोदश, वेदकक्षायिकयोः सर्वे, मिश्रे मिश्रत्रिकाहारककार्मणहीना दश, संज्ञिनि सर्वे, असंज्ञिनि कार्मणौदारिकद्वयांत्यवचोयोगाश्चत्वारः, आहारके निःकार्मणाश्चतुर्दश, एकः कार्मणोऽनाहारके । एवं मार्गणासु योगाः योजिताः । जीवसमासेषूपयोगा उच्यन्ते-- जीवस्थानेषु चत्वार उपयोगाः द्वयोर्बुधैः। जय एकादशस्विष्टा एकत्र द्वादशस्फुटम् ॥ ९॥ तदित्थम् --११, ३ । २, ४ । १, १२ । तत्प्रकारः सूच्यते-- तत्र मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनान्येकादशसु त्रयः, मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनचक्षुर्दर्शनानि चतुरिन्द्रियासंज्ञिनोः पूर्णयोर्द्वयोश्चत्वारः, संशिनि पूर्णे द्वादशोपयोगाः । जीवस्थानेषु योगा उच्यन्ते-- . १ संज्ञिपंचेन्द्रियापर्याप्तस्य एकजीवापेक्षया जघन्येन त्रय उपयोगाः सम्भवन्ति नानाजीवापेक्षया तु सप्त । इति विचारणीयं । ६ पं० सं० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy