________________
(८५)
समुदिताः ५७। गुणेष्वेतानाहप्रथमे पंचपंचाशत् पंचाशत्प्रत्ययाः परे । त्रिचत्वारिंशदन्यत्र षट्चत्वारिंशदन्यतः ॥३२॥ सप्तत्रिंशचतुर्द्विद्वियुक्ता विंशतयस्त्रिषु । षोडशैकैकनिर्मुक्ता यावत्ते नवमे दश ॥ ३३ ॥ दश सूक्ष्मे नव प्रोक्ताः प्रशान्तक्षीणयोद्वयोः । सयोगे सप्त निर्योगः प्रतीतः प्रत्ययोज्झितः ॥ ३४॥ इति नानाक्षणेष्वेते नानाजीवेषु कोविदैः । उत्तराः प्रत्यया नेया गुणस्थानेषु यत्नतः ॥३५॥ तदेवम्अष्टसु गुणस्थानेषु ५५।५०४३।४६।३७।२४।२२।२२। अनिवृत्तौ १६।१५।१४।१३।१२।११।१०। सूक्ष्मादिषु पंचसु १०।९।९/७० । तत्प्रकारः सूच्यते
आहारकद्वयोना मिथ्यादृष्टौ, ते मिथ्यात्वपंचकहीनाः सासने, प्रथमकषायचतुष्कवैक्रियिकौदारिकमिश्रकार्मणहीना मिश्रे, वैक्रियिकौदारिकमिश्रकार्मणयुक्ताश्चतुर्थे, वैक्रियिकद्वयौदारिकमिश्रकार्मणद्वितीयकषायचतुष्कत्रसाविरतिहीनाः पंचमे, तृतीयकषायचतुष्कैकादशाविरतिहीना आहारकद्वययुक्ताः षष्टे, आहारकद्वयहीनाः सप्तमाष्टमयोः, हास्यादिषट्रेन षंढवेदेन
१ एकजीवस्य सर्वे प्रत्ययाः एकदैव न सम्भवन्ति । बहुषुजीवेष्वेकक्षणे, एकजीवस्य च अनेकक्षणेषु सम्भवितुमर्हन्ति । २ अनिवृत्तिकरणभागेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org