SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ( ७१ ) पदसंहननपद्वतिर्यग्गतिमनुष्यगतिप्रायोग्यानुपूर्व्युपघातपरघातो च्छ्रासात पोद्योत प्रशस्ताप्रशस्तविहायोगतित्रसस्थावरवादरसूक्ष्मपर्याप्तप्रत्येकसाधारणसुभगादुर्भगसुस्वरादेयानादेययशः कीर्त्त्ययशः कीर्तिनी चोच्चगोत्रनामिकानां द्वयशीतिप्रकृतीनां स्वपरोदयाद्वंधो द्रष्टव्यः, स्वोदयेनेव परोदयेनापि बंधाविरोधात् । कषायाः सकलाः सर्वाः ज्ञानदृष्टयंतरायगाः । उपघातजुगुप्से भी र्मिथ्या तैजसकार्मणे ।। ९९ । निर्माणागुरुलध्वा वर्णादीनां चतुष्टयम् । ध्रुवबंधा मताः सप्तचत्वारिंशदिमाः जिनैः ॥ ९२ ॥ ध्रुवबंधत्वमेतासां बंधयोग्यगुणस्थाने नित्यं बंधोपलंभात् । आयुश्चतुष्टयाहारद्वयतीर्थ करैर्युताः । चतुः पंचाशदेताच बंधं यांति निरन्तरम् ॥ ९३ ॥ ध्रुवबंधस्य निरन्तरबंधस्य च को विशेषः ? महान् विशेषो यतः--- बंधयोग्य गुणस्थाने याः स्वकारणसन्निधौ । सर्वकालं प्रबध्यन्ते भ्रवबंधा भवन्ति ताः ॥ ९४ ॥ वन्धकालो जघन्योऽपि यासामन्तर्मुहूर्त्तकः । बन्धसमाप्तितस्तत्र ता निरन्तरबंधनाः ॥ ९५ ॥ अन्त्ये संहतिसंस्थानपंचके स्थावरातपौ । ढवेदो वधूवेद आद्यं जातिचतुष्टयम् ।। ९६ ।। शोकारत्यशुभोद्योतसूक्ष्मसाधारणायशः । अस्थिरासन्नभोरीतिदुर्भगापूर्णदुः स्वराः ।। ९७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy