________________
(७२)
श्वभ्रद्वयमनादेयासाते त्रिंशचतुर्युताः। बध्यन्ते सांतरा बंधेऽन्याः सान्तरनिरन्तराः ॥ ९८ ॥ बंधो भूत्वा क्षणं यासामसमाप्तो निवर्तते ।। बंधापूतैः क्षणेनैताः सांतरा विनिवेदिताः ॥ ९९ ।। अन्तर्मुहूर्त्तमात्रत्वाज्जघन्यस्यापि कर्मणाम् । सर्वेषां बंधकालस्य बंधः सामयिकोऽस्ति नो ॥ १० ॥ तिर्यग्द्वयं नरद्वन्द्वं पुंवेदौदारिकद्वये । गोत्रे सातं सुरद्वन्द्वं पंचाक्षं वैक्रियद्वयम् ॥ १०१ ॥ परघातं रतिहास्यमाघे संस्थानसंहती। दश प्रसादियुग्मानामाद्यान्युच्छाससद्गती ।। १०२ ॥ द्वात्रिंशदिति जायंते ताः सांतरनिरन्तराः । यसादुभयथाँ बंधः सर्वदाप्युपलभ्यते ॥ १०३ ।। उच्चनत्वे न बनंति तेजःपवनकायिकाः ।। स्त्रीपंढकोदये साधुन हार्दूि कदाचन ॥ १०४ ॥ मिथ्यात्वभावतो जातु मिथ्यात्वबलभाविषु । सासनो जायते नैव श्वाभ्रतेजोनिलांगिषु ॥ १०५ ॥
बंधोदयोदीरणसत्क्षयाणां,
विचारणां यो विदधाति नित्यम् । विविक्तमात्मानमपास्तकर्मा,
ज्ञानात्मकं सोऽमितगत्युपैति ॥ १०६ ॥ इति श्रीमदमितगत्याचार्यप्रणीते पंचसंग्रहग्रन्थे
कर्मबंधस्तवाख्यस्तृतीयः
परिच्छेदः।
१ द्वात्रिंशत् । २ एकसमयवर्ती । ३ सांतरोऽपि निरंतरोऽपि बंधः ५४, निरंतरबंधः ३४, सांतरबंध ३२, एवं १२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org