SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (७०) नरकगतिनरकगत्यानुपूर्वी देवगतिदेवगत्यानुपूर्वी वैक्रि. यिकशरीरवैक्रियिकशरीरांगोपांगानां षण्णां बंधयोग्येषु गुणेषु परोदयेन बंधः, स्वोदयेन बंधस्य विरोधादाहारकद्वयमपि परोदयेन बध्यते । आहारकद्वयोदयरहितयोरप्रमत्तापूर्वयोर्वधोपलंभात् । नारकामरायुषोरपि परोदयेन बंधस्तद्वंधोदययोः समानकाले वृत्तिविरोधात् । तीर्थकरनानोऽपि परोदयेन बंधः तीर्थकरकर्मोदयसंभविगुणस्थानयोः सयोगायोगयोस्तद्वंधानुपलंभात् । ज्ञानावत्यंतरायस्था दश तेजसकामणे । शुभस्थिरद्वये वर्णचतुष्कं दृक्चतुष्टयम् ।। ८९ ॥ निर्माणागुरुलध्वाह मिथ्यात्वं सप्तविंशतिः । बध्यन्ते स्वोदयाच्छेषा द्वयशीतिः स्वपरोदयात् ॥९० ॥ __ज्ञानावरणान्तरायस्था दश प्रकृतयो,दर्शनावरणस्य चतस्रो, वंधयोग्येषु गुणस्थानेषु स्वोदयेन वध्यन्ते । मिथ्यादृष्टयादिक्षीणकषायान्तेष्वेतासां निरन्तरोदयोपलंभात् । तैजसकामणवर्णगंधरसस्पर्शनिर्माणागुरुलघुस्थिरास्थिरशुभाशुभानि स्वोदयेनैव बध्यन्ते, ध्रुवोदयत्वात् । मिथ्यात्वस्यापि स्वोदयेनैव बंधो, मिथ्यात्वकारणषोडशप्रकृतिषु पाठात्, वंधोदययोः समानकाले वृत्तिविरोधाभावाद्वा । दर्शनावरणपंचकवेद्यद्वयकषायषोडशकनोकषायतिर्यगायुमनुष्यायुस्तिर्यग्गतिमनुष्यगत्येकद्वित्रिचतुःपंचेन्द्रियजात्यौदारिकौदारिकांगोपांगसंस्थान १ यतः कारणात् तयोरुदयकाले बंधो न भवति बंधकाल उदयो न. भवति इत्यन्योन्यं विरोधो ज्ञेयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy