________________
(६१)
अंत्याः संहतयस्तिस्रः सम्यक्त्वं चाप्रमत्तके । अपूर्वे नोकषायाणां षट्कं यात्युदयच्युतिम् ॥ ४८॥ संज्वालं त्रितयं वेदत्रयं षडनिवृत्तिके । क्षणेते लोभसंज्वालः सूक्ष्मे यात्युदयक्षयम् ॥४९॥ वज्रनाराचनाराचे शान्ते द्वे उदयक्षयम् । द्वे निद्राप्रचले यातः क्षीणस्योपांतिके क्षणे ॥५०॥ दश ज्ञानान्तरायस्थाश्चतस्रो दर्शनस्थिताः । चतुर्दशोदयाद्यान्ति क्षीणस्यांते क्षणे क्षयम् ॥५१॥ वेद्यमेकतरं वर्ण चतुष्कौदारिकद्वये ।। आद्यसंहननं षट्कं संस्थानानां स्थिरद्वयम् ॥ ५२ ॥ शुभसुस्वरयोर्युग्मे निर्मित्तेजोनभोगती । चतस्रोऽगुरुलध्वाद्याः प्रत्येककार्मणे इमाः॥५३ ।। भ्रश्यत्युदयतस्त्रिंशत् सयोगस्यान्तिमे क्षणे । वेदनीयं द्वयोरेकं मर्त्य गत्यायुषी त्रसम् ॥ ५४ ।। पंचाक्षं सुभगं स्थूलं पर्याप्तं तीर्थकर्तृता । आदेयं यश उच्चं च निर्योगे द्वादश च्युताः ॥ ५५ ॥ प्रयांत्युदीरणाच्छेदं पंच प्रकृतयो नव । एका सप्तदशाष्टाष्टौ चतस्रः षट् षडादितः ॥५६॥ एका द्वे षोडशैकोनचत्वारिंशत्क्रमादिमाः। एकोप्युदीर्यते जातु नायोगे प्रकृतिर्जिने ॥ ५७॥ उदीरणायां सर्वाः प्रकृतयः ।२२।।
एताः सम्यक्त्वसम्यमिथ्यात्वाहारकद्वयतीर्थकरहीना मि. थ्यादृष्टी, नरकानुपूर्वी विना सासादने, निर्यङ्नरसुरानुपूर्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org