________________
(५५)
तत्संदृष्टिरित्थम्,
अष्टौ कर्माणि सूक्ष्मान्ताः मुंजते मोहनं विना । शान्तक्षीणकषायाख्यावन्तिमो घातिभिर्विना ॥ १३ ॥ ૮૮૮૮૮૮૮૮૮૮૭૭ીઝાઝા. स्वस्थावस्थायामिति उदीरयंति घातीनि तत्स्था मोहं समोहनाः । वेद्यायुषी प्रमत्तान्ता योग्यता गोत्रनामनी ॥ १४ ।। यतोत्रायुषो मरणावल्यामुदीरणा नास्ति । ततः-- सप्तव मरणावल्यां प्रमत्तान्ता अमिश्रकोः । अष्टौ च सर्वदामिश्रस्तस्य तस्यामभावतः ॥ १५ ॥ पंच मोहं विना सूक्ष्मः क्षीणो द्वे गोत्रनामनी। कर्मणी स्फुटमावल्यामुदीरयति निश्चितम् ॥ १६ ॥
सत्ता कथ्यते,-- शांतान्तेषु समस्तानि सप्त मोहमृते परे । जिनयोः संत्यघातीनि घातिकर्मविमुक्तयोः ॥ १७ ॥
१ ज्ञानदर्शनान्तरायत्रयं । २ मोहस्थाः। ३ सूक्ष्मान्ता मोहमुदीरयति । ४ मरणावस्थायामन्तर्मुहूर्त्तायुषि उदीरणा नास्ति । ५ मिश्रगुणस्थानवर्जिताः। ६ मिश्रस्य । ७ मरणावल्याम् । ८ सूक्ष्मसांपरायान्ते मोहंविनापंचकर्मणामुदीरणा शेषकालेषण्णाम् । ९ क्षीणश्च पंच ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org