________________
( ५४ )
बंधोऽभिधीयतेऽन्योऽन्यं संपर्कों जीवकर्मणोः । द्रव्यादेः फलदातृत्वं कर्मणामुदयो जिनैः ॥ २ ॥ सैमुदीर्यानुदीर्णानां स्वल्पीकृत्य स्थितिं बलात् । कर्मणामुदयावल्यां प्रक्षेपणमुदीरणा || ३ || कर्मणां फलदातृत्वं द्रव्यक्षेत्रादियोगतः । उदयः पाकजं ज्ञेयमुदीरणमपाकजम् ॥ ४ ॥ कर्मणां विद्यमानत्वं यत्सत्त्वं तन्निगद्यते । तानि चत्वारि जायंते प्रथमोत्तरकर्मणाम् ॥ ५॥ तदुक्तम्,परस्परं प्रदेशानां प्रवेशो जीवकर्मणोः । एकत्वकारको बंधो रुक्मकांचनयोरिव ॥ ६ ॥ ग्रहणं कर्मयोग्यानां पुद्गलानां प्रतिक्षणम् । सकषायस्य जीवस्य बंधोऽनेकविधः स्थितः ।। ७ ।। कर्मणां संगृहीतानां सत्तोक्ता विद्यमानता । उदयो भुक्तिकालस्तु धान्यानामिव कोविदैः ॥ ८ ॥ कृष्ट्रा कृष्ट्रोपरिस्थानां प्रक्षेपणमुदीरणा । असंख्यकर्मभागानां स्थिराणामुदयावलौ ॥ ९॥ जीवकर्मप्रदेशानां विश्लेषो यः परस्परम् । अपुनर्भविकोsवाचिस क्षयः क्षीणकल्मषैः ॥ १० ॥ प्रवनंत्यप्रमत्तान्ताः सप्ताष्टौ मिश्रवर्जिताः । वर्जितान्यायुषा सप्त मिश्रापूर्वानिवृत्तयः ॥ ११ ॥ विनायुमहनीयाभ्यां षटुं सूक्ष्मकषायकाः । एकमेव त्रयो वेद्यं निर्बन्धो योगवर्जितः ॥ १२ ॥ १ उदयमानीय बलात्, न उद्यागतानां कर्मणाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org"