________________
(५३) परघातोद्योतातपतीर्थकृदाहारकद्वयानि चोच्छासः । आयुश्चतुष्कर्मता एकादश सन्ति शेषाख्याः ॥४४॥ द्वे वेद्ये गतयो हास्यचतुष्कं द्वे नभोगती। पट्टे संस्थानसंहत्योर्गोत्रे वैक्रियिकद्वयम् ॥ ४५ ॥ . चतुष्कमानपूर्वीणां दशयुग्मानि जातयः । औदारिकद्वयं वेदा एताः सपरिवृत्तयः ॥ ४६ ॥ संख्या ६२। एताः प्रकृतयः साष्टाचत्वारिंशच्छतप्रमाः । संत्युत्तरोत्तरा ज्ञेयाः संख्यातीता विचक्षणैः ॥४७॥ आगममार्गप्रकटितसारं
यो हृदि धत्ते प्रकृतिविचारम् । याति स भव्योऽमितगतिदृष्टं
नाकिनिषेव्यः पदमनदृष्टम् ॥ ४८ ॥ इति श्रीमदमितगत्याचार्यवर्यप्रणीते पंचसंग्रहनामकग्रंथे
प्रकृतिस्तवाख्यो द्वितीयः परिच्छेदः ॥
अथ कर्मप्रकृतिबंधस्तवः । प्रणम्य भक्तितः सर्वान् सर्वज्ञान् सर्वदर्शिनः । बन्धोदयसर्दुच्छेदवर्णना क्रियते मया ॥१॥
१ क-ख पुस्तकयोः “ परघातोपघातातप” इत्यादि पाठः किन्त्वनेन मात्राधिक्यं । तथाच गोम्मटसार कर्मकाण्डेऽपि “ सेसे तित्थाहारं परघाद चउक सव्व आऊणि ” इति पाठः परघातचतुष्के परघातोच्छ्रासोयोतातप प्रकृतयः सन्ति । २ अध्रुवसंज्ञाः। ३ कदाचित्कस्याः कदाचित्कस्या उदयः, एतासां नियतोदयो नास्ति । ४ सत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org