SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ (५२) १२० बन्धप्रकृतयः । अबंधा मिश्रसम्यक्त्वे बंधसंघातयोर्दश । स्पर्श सप्त भवन्त्येका गंधेऽष्टौ रसवर्णयोः ॥ ३७ ॥ २ । ५। ५ । ७।१ । ८ मिलिताः २८ । सम्यमिथ्यात्वसम्यक्त्वप्रकृतिद्वितयोज्झिताः । एताः प्रकृतयो यांति कदाचिदपि नोयदम् ॥ ३८ ॥ २६ । १२२ उदय प्रकृतयः ।। मतनापरसूरीणां सर्वाः प्रकृतयोंऽगिनाम् ।। बंधोदयौ प्रपद्यन्ते स्वहेतुं प्राप्य सर्वदा ॥ ३९ ॥ सर्वाः १४८ । आर्यावृत्तम् । वैक्रियिकाहारकनृश्वाभ्रत्रिदशद्वयानि सम्यक्त्वम् । सम्यमिथ्यात्वोचे त्रयोदशोद्वेल्लना ज्ञेयाः ॥ ४० ॥ त्रयोदश १३ उद्वेलनप्रकृतयः । या विनश्यन्त्यनासाद्य स्वमुखेनोदयं बुधैः । उद्वेल्लनाभिधाः प्रोक्ताः कर्मप्रकृतयोऽत्र ताः ॥ ४१ ।। आर्यावृत्तम् । दशविघ्नज्ञानावृतयो दृष्टयावृतयो नवोपघाताख्यम् । तैजसकार्मणनिर्मितवर्णचतुष्टयमयजुगुप्साः ॥ ४२ ॥ मिथ्यात्वागुरुलघुनी कषायषोडशकमीरिताः सद्भिः । सप्तयुता चत्वारिंशद्धृवसंज्ञाः प्रकृतयस्ताः ॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy