________________
(५१)
वज्रर्षभादिनाराचमाद्यं संहननं परम् । वज्रनाराचनाराचे अर्द्धनाराचकीलके ॥ २६ ॥ अन्ये संहननं षष्ठमसंप्राप्तास्रपाटिकम् । अस्थिबंधकरं नाम पोढा संहननं विदुः ॥ २७ ॥ जनकं शुक्लादिवर्णानां वर्णनामास्ति पंचधा । गंधनाम द्विधा शस्ताशस्तगंधकरं स्मृतम् ॥ २८ ॥ मधुरोऽम्लः कटुस्तिक्तः कषायः पंच ये रसाः । तेषां विधायकं कर्म रसनामास्ति पंचधा ॥ २९ ।। कर्कशः शीतलः स्निग्धो गुरुः स्पर्शोऽस्ति सेतरः । अष्टानां कारणं तेषामष्टधा स्पर्शनामकम् ॥ ३० ॥ पंचांगबंधनं ज्ञेयं पंचधा नाम बंधनम् । चतुर्विधानुपूर्व्यस्ति चतुरीतिप्रवेशिका ॥ ३१ ॥
आर्यावृत्तम् ।। ज्ञेयं समचतुरस्र न्यग्रोधं सातिकुब्जके भविनः । हुंडं वामनकाख्यं संस्थानं जायते षोढा ॥ ३२ ।।
अनुष्टुप् छन्दः। नभोरीतिर्द्विधा ज्ञेया शस्ताशस्तगतिप्रदा। चतुर्दशेति निर्णीताः पिंडप्रकृतयो जिनैः ॥ ३३ ॥ क्रियते येन नीचोच्चैः स्थाने चित्रकृतो यथा । प्रकृती तस्य नीचोचे द्वे प्रोक्ते गोत्रकर्मणः ॥ ३४ ॥ यो दानलाभभोगानां विघ्नं वीर्योपभोगयोः । भांडागारिकवद्धत्ते साऽन्तरायोऽस्ति पंचधा ॥ ३५ ॥ नाम्नः षड्विंशतिं त्यक्त्वा मोहनप्रकृतिद्वयम् । सर्वेषां कर्मणां शेषा बंधप्रकृतयः स्मृताः ॥ ३६॥
८
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org