________________
(५०)
विद्युन्मालाछन्दः । आयुः श्वारूं तेर्यग्योनं मार्त्य दैवं तज्ज्ञातव्यम् । कारागारेणेवोद्बद्धो येनाङ्गयास्ते स्थास्नुभूयः ॥१६॥
अनुष्टुप् । गतिजातिशरीराद्याः क्रियते येन भूरिशः। कुलालेनेव कुंभाद्या नामकर्म तदुच्यते ॥ १७ ॥ पिंडापिंडाभिधास्तस्य द्वेधा प्रकृतयो मताः। पिंडाश्चतुर्दश प्राज्ञैस्तत्राष्टाविंशतिः पराः ॥ १८ ॥ पिंडाः १४ । अपिंडाः २८ । मिलिताः ४२ । भेदतः ९३ । गतिर्जातिः शरीरांगोपांगौ संघातसंहती। वर्णगन्धरसस्पर्शबंधानुपूर्व्यः संस्थितिः ॥ १९ ॥ निर्माणागुरुलघ्वाद्दे परघातोपघातने । उच्छास आतपोद्योती तीर्थकृत्त्वनभोगती ॥ २० ॥ त्रसवादरपर्याप्तप्रत्येकानि स्थिरं शुभम् ।। सुभगं सुस्वरादेये यश-कीर्तिश्च सेतराः ॥ २१ ॥ नारकी येन तैरवी मानुषी त्रैदशी गतिः । विधीयते तदादिष्टं गतिनाम चतुर्विधम् ।। २२ ॥ एकद्वित्रिचतुः पंच हृषीका येन देहिनः । क्रियते पंचधा तत्स्याज्जातिनामेड पंचधा ॥ २३ ॥
आर्यावृत्तम् । औदारिकवैक्रियिकावाहारकतैजसौ परः कर्म । इति पंचकायजनकं शरीरनामास्ति पंचविधम् ॥ २४ ॥
__अनुष्टुपू । अंगोपांगं त्रिकायानामंगोपांगकरं त्रिधा। संघ.तः पंचधांगानां संघातजनकक्षमः ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.