SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (४९) आर्यावृत्तम् । निद्रानिद्रा प्रचलाप्रचला स्त्यानादिगृद्धयो निद्रा । प्रचला चक्षुरचक्षुरवधिकेवलदर्शनावृतयः ॥ ७॥ अनुष्टुप् वृत्तम् । वारिका दर्शनस्यैताः प्रतिहार्य इवात्मनः। दर्शनावरणस्योक्ता नव प्रकृतयो जिनैः ॥ ८ ॥ मध्वक्तसायकस्येव सुखदुःखविधायिनः । द्वे सद्वेद्यमसद्वेद्यं वेद्यस्य प्रकृती मते ॥९॥ नीयते येन मूढत्वं मधेनेव शरीरवान् । मोहनं तत् द्विधा प्रोक्तं दृष्टिचारित्रमोहतः ॥१०॥ एकधा वंधतस्तत्र सत्वतो दृष्टिमोहनम् । त्रेधा सम्यक्त्वमिथ्यात्वसम्यमिथ्यात्वभेदतः ॥ ११ ॥ कषाया नोकषायाश्च द्वेधा चारित्रमोहनम् । षोडश प्रथमास्तत्र द्वितीया नव भाषिताः ॥ १२ ॥ क्रोधो मानो जिनर्माया लोभः प्रत्येकमीरिताः । तत्रानंतानुबंध्यादि विकल्पेन चतुर्विधाः ॥ १३ ॥ ते च यथार्थनामानः सत्रानंतानुबंधिभिः । अप्रत्याख्यानात्प्रत्याख्यानावृत्संज्वलनाः स्मृताः ॥ १४॥ हास्यं रत्यरती शोको भयं सार्क जुगुप्सया । स्त्रीपुंनपुंसका वेदा नोकषाया नवेरिताः ॥ १५ ॥ १ आवरण्यः । २ मधुलिप्तखड्गस्येव । ३ कथिताः । ४ सह । ५ अप्रत्याख्यानावरणं, प्रत्याख्यानावरणं, संज्वलनं । ४ पं० सं० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy