SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ( ४८ ) षण्ढकर्मोदयात्तीत्रा वह्निज्वालेव तापिका | द्वयोर्योगोपयोगाभ्यां संज्ञा षण्ढस्य मैथुने || ३५१ ॥ लोभकर्मोदयाज्जंतोरीक्षणादुपयोगिनः । मृच्छपयोगतः संज्ञा प्रादुरस्ति परिग्रहे ।। ३५२ ।। यः प्रमाणन्य मार्गकोविदो जीवमार्गणगुणावलोकनम् | आदरेण विदधाति शुद्धधीः सोsags मितगतिः शिवास्पदम् || ३५३ ॥ इत्यमित्तगत्याचार्यप्रणीते पंचसंग्रहनामकग्रन्थे जीवसमासाख्यः प्रथमः परिच्छेदः । अथ प्रकृतिस्तवः । यो ज्ञात्वा प्रकृतीदेवो दग्धवान् ध्यानवन्हिना | तं प्रणम्य महावीरं क्रियते प्रकृतिस्तवः ॥ १ ॥ ज्ञानदृष्ट्याहृती वेद्यं मोहनीयायुषी मताः । नामगोत्रान्तरायाश्च मूलप्रकृतयोऽष्टधा ॥ २ ॥ एताः पंच नव द्वे स्रष्टाविंशतिरुत्तराः । चतस्रो नवतिस्त्र्यग्रा द्वे पंच च यथाक्रमम् ॥ ३ ॥ गृहीतः पुद्गलस्कंधो मिथ्यात्वा संयमादिभिः । प्रयाति कर्मरूपेण परिणाममनेकधा ॥ ४॥ ज्ञानस्योदयमापन्नाः शरीरिणि पिधायिकाः । भुवनोद्योतिनो व्योम्नि सूर्यस्येवाम्बुदावलीः ॥ ५ ॥ मतिश्रुतावधिज्ञानं मनः पर्यय केवले । पंचानामावृतेस्तेषां पंचज्ञानावृतीः विदुः ॥ ६॥ १ आच्छादिकाः । २ आवरणात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy