________________
(४७)
तृतीयः संयमस्तुर्ये ज्ञानं सम्यक्त्वमादिमम् । आहारकद्वयं ज्ञेयं यत्रैकं तत्र नापरम् ।। ३४० ॥ उत्तीर्योपशमश्रेणेः स मनः पर्यये गते ।
प्रमत्तं साद्यसम्यक्त्वं तुर्य ज्ञानं विभाव्यते ॥ ३४९ ॥ न पश्चात्कृत मिथ्यात्वे प्राप्त शामिकदर्शने । संभवाभावतस्तत्र प्रमत्ते तुर्यबोधनम् || ३४२ ॥ आहारर्द्धिः परीहारस्तीर्थकुत्तुर्यवेदनम् । नोदये तानि जायते स्त्री नपुंसक वेदयोः || ३४३ ॥ इहामुत्र परं दुःखं यकाभिरुपयांति ताः । संज्ञाश्चतस्र आहारभीमैथुनपरिग्रहाः || ३४४ ॥ पूर्णाः पूर्णेषु ताः सर्वाः प्रमत्तांतेषु देहिषु । आहारसंज्ञया हीनास्तिस्रस्ता गुणयोर्द्वयोः ॥ ३४५ ॥ पंचस्वाद्येऽनित्यंशे द्वे मैथुनपरिग्रहे । सूक्ष्मलोभं ततो यावत्संज्ञा ज्ञेया परिग्रहे ॥ ३४६ ॥ असद्वेद्येोदयाभावादप्रमत्तेनसंज्ञया ।
विना संज्ञाः परास्तिस्रः संभवति यथागमम् ॥ ३४७ ॥ असातोदयतो रिक्त भूतकोष्ठतयाऽङ्गिनः । अन्नोपयोगदृष्टिभ्यामन्नसंज्ञा प्रवर्तते ॥ ३४८ ॥ भयोपयोगतो भीमदृष्टितः सत्वहानितः । भयकर्मोदयाज्जीवे भयसंज्ञोपजायते ।। ३९॥ स्ववेदोदीरणासि वृष्यभोजनतः स्त्रियाः । संगोपयोगतः संज्ञा पुंसो मैथुनिकी स्त्रियाम् ॥ ३५० ॥
१ मणपज्जय परिहारो पढमुवसम्मत्त दोणि आहारो । एदे एकपदे णत्थित्ति असेसयं जाणे ॥ गो० ७३० ॥ २ द्वितीयोपशमेन सह मन:पर्ययाभवितुमर्हति न प्रथमोपशमेन ।
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org