________________
( ४० )
नृभोगभूमितिर्यक्षु सौधर्मादिषु नाकिषु ।
आद्यायां श्वभ्रभूमौ च सम्यक्त्वत्रयमिष्यते ॥ २९९ ॥ "शेषत्रिदशतिर्यक्षु षट्स्वधः श्वभ्रभूमिषु । पर्याप्तेषु द्वयं ज्ञेयं क्षायिकेन विनांगिषु ॥ ३०० ॥ आयुश्चतुष्कबंधेsपि दृष्टिलाभोऽस्ति निश्चितम् । देवायुष्ये च बद्धेऽङ्गी स्वीकरोति व्रतद्वयम् ॥ ३०९ ॥ आद्यसम्यक्त्वतो भ्रष्टः पाकेऽनंतानुबंधिनाम् । मिथ्यादर्शनमप्राप्तः सासनः कथ्यतेतराम् ॥ ३०२ ॥ सम्यद्मिथ्यात्वपाकेन परिणामो विमिश्रितः । विषमिश्रामृतास्वादः सम्यमिध्यात्वमुच्यते ॥ ३०३ ॥ मिथ्यात्वोदयतस्त्रेधा मिथ्यात्वं जायतेऽङिनाम् । तच्च सांशयिकं ज्ञेयं गृहीतमगृहीतकम् || ३०४ ॥ मिथ्यात्व भूषितस्तत्त्वं नादिष्टं रोचते कुधीः । सदादिष्टमनादिष्टमतत्त्वं रोचते पुनः ।। ३०५ ॥ जिनेन्द्र भाषितं तत्त्वं किमु सत्यमुतान्यथा । इति द्वयाश्रया दृष्टिः प्रोक्ता सांशयिकी जिनैः ॥ ३०६ ॥ परोपदेशतो जातं तत्त्वार्थानामरोचनम् । गृहीतमुच्यते सद्भिर्मिथ्यादर्शनमङ्गिनाम् ॥ ३०७ ॥ भेदाः क्रियाऽक्रियावादिविनयाज्ञानवादिनाम् । गृहीतासत्यदृष्टीनां त्रिषष्टित्रिशतप्रमाः ॥ ३०८ ॥ अछूतो ३६३ तत्राशीतिशतं ज्ञेयमशीतिश्चतुरुत्तरा । द्वात्रिंशत्सप्तषष्टिश्च तेषां भेदाः यथाक्रमम् ॥ ३०९ ॥ १ भवनवासिनो व्यंतरा ज्योतिष्काश्च । २ आदिष्टं कथितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org