________________
(३९) संवेगप्रशमास्तिक्यदयादिव्यक्तलक्षणम् । तत्सर्वदुःखविध्वंसि त्यक्तशंकादिदूषणम् ॥ २८९॥ निसर्गाधिगमाभ्यां यच्छ्रद्धानं तत्वगोचरम् । अज्ञानच्छेदकं त्रेधा सम्यक्त्वमिदमुच्यते ।। २९० ॥ शमे सम्यक्त्वमिथ्यात्वमिश्रानंतानुबंधिनाम् । प्रादुर्भवति सम्यक्त्वं शमिकं क्षायिक क्षये ॥ २९१ ।। क्षीणोदयेषु मिथ्यात्वमिश्रानंतानुबन्धिषु ।। लब्धोदये च सम्यक्त्वे क्षायोपशमिकं भवेत् ॥ २९२ ॥ रूपैर्भयंकरैर्वाक्यहेतुदृष्टान्तदर्शिभिः । जातु क्षायिकसम्यक्त्वो न क्षुभ्यति विनिश्चलः ॥ २९३ ॥ नृगतौ दृष्टिमोहस्य मर्त्यः प्रारभते क्षयम् । निवर्त्तते समस्तासु कर्मभूमिभवः स्फुटम् ॥ २९४ ॥ क्षयस्यारंभको यत्रं परं तस्माद्भवत्रयम् । अनतिक्रम्य निर्वाति क्षीणदर्शनमोहतः ॥ २९५ ॥ शमको दृष्टिमोहस्य ज्ञेयो गतिचतुष्टये । संज्ञी पंचेन्द्रियः पूर्णः सान्तरः शुद्धमानसः ॥ २९६ ।। निकायत्रितये पूर्वे श्वभ्रभूमिषु षट्रस्वधः । वनितासु समस्तासु सम्यग्दृष्टिने जायते ॥ २९७ ॥ चतुर्वसंयतायेषु सम्यक्त्वत्रयमिष्यते । वेदकेन विनान्येषु क्षायिकं त्रितये परे ॥ २९८ ॥
१ जीवादिपदार्था यथा जिनरुक्तास्तथैव संतीत्यास्तिक्यं २ उदयरहितेषु, उपशमं गतेषु, परं पुनरुदयं नागमिष्यति इति क्षयरूपेषु च । ३ चतुर्गतिषु ४ भवे ५ भवात् ६ अनुलंघ्य ७ अमुमेवार्थ संदृष्टिद्वारेण संचयति-01010।३।३।३।३।२।२।२।२।१।११।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org