________________
(३८)
तत्र सर्वकरणानां प्रथमसमये स्वल्पा शुद्धिः । ततः प्रेतिसमयमन्तर्मुहूर्तसमाप्तेरनंतगुणा द्रष्टव्या । सर्वाणि करणान्यन्वर्थानि, -- अथ प्रागप्रवृत्ताः कदाचिदीदृशाः करणा: परिणामा यत्र तदथाप्रवृत्तकरणं । अँधःस्थैरुपरिस्थाः समानाः प्रवृत्ताः करणाः यत्र तदधःप्रवृत्तकरणमिति वान्वर्थसंज्ञा । अपूर्वाः समये समये अन्ये शुद्धतराः करणाः यत्र तदपूर्वकरणं । एकसमयस्थानामनिवृत्तयोऽभिन्नाः करणा यत्र तदनिवृत्तिकरणं । सर्वेषु करणेषु नानाजीवानामसंख्येयलोकप्रमाणाः परिणामा द्रष्टव्याः । तत्राथाप्रवृत्तकरणे स्थितिखंडनानुभागखंडनगुणश्रेणिसंक्रमा न संति परमनंतगुणवृद्धया विशुद्धया अशुभप्रकृतीरनंतगुणानुभागहीना वध्नाति शुभप्रकृतीरनंतगुणरसद्धाः, स्थितिमपि पल्योपमासंख्येयभागहीनां करोति । अपूर्वकरणानिवृत्तिकरणयोः स्थितिखंडनादयः संति । क्रमेणाशुभप्रकृतीनामनुभागवंधोऽनंतगुणहान्या शुभप्रकृतीनां चानंतगुणवृद्धया वर्तते । तत्रानिवृत्तिकरणस्यासंख्येयेषु भागेषु गतेष्वान्तरकरणमारभते, येन दर्शनमोहनीयं निहत्य चरमसमये त्रिधा करोति शुद्धाशुद्धमिश्रभेदेन, सम्यक्त्वं, मिथ्यात्वं, सम्यमिथ्यात्वं चेति ।। प्रशमय्य ततो भव्यः सहानंतानुबंधिभिः ।। ताः मोहप्रकृतीस्तिस्रो याति सम्यक्त्वमादिमम ॥ २८९ ॥
१ प्रथमसमयात् । २ अन्तर्मुहूर्त्तकालसमाप्तेर्यावत् समयं समयं प्रति अनंतगुणा ज्ञातव्या । ३ यत्र स्थाने उपरिस्था अनादिकालस्य रागद्वेषादिपरिणामा अधःस्थैरात्मानुयायिभिर्भव्यपरिणामैः सह समाना भवंति तदधः प्रवृत्तिकरणं । ४ भेदरहिताः किन्त्वेकरूपाः समानाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org