SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (३७) अन्तः कोटीकोटीसागरोपमस्थितिकेषु कर्मसु वंधमापद्यमानेषु विशुद्धिपरिणामयोगेनसत्कर्मसु संख्येयसागरापमसहसोनायामन्तःकोटीकोटीसागरोपमस्थितौ स्थापितेषु आद्यसम्यक्त्वयोग्यता भवतीति प्रायोगिकी लब्धिः । अथाप्रवृत्तकापूोनिवृत्तिकरणत्रयम् । विधाय क्रमतो भव्यः सम्यक्त्वं प्रतिपद्यते ।। २८८ ।। भव्योऽनादिमिथ्यादृष्टिः षड्विंशतिमोहप्रकृतिसत्कर्मकः सादिमिथ्यादृष्टिा षविंशतिमोहप्रकृतिसत्कर्मकः सप्तविंशति मोहप्रकृतिसत्कर्मको वा अष्टाविंशतिमोहप्रकृतिसत्कर्मको वा प्रथमसम्यक्त्वमादातुकामः शुभपरिणामाभिमुखोऽन्तमुहूर्तमनंतगुणवृद्धया वर्द्धमानविशुद्धिश्चतुएं मनोयोगेष्वन्यतमेन मनोयोगन चतुर्ष वाग्योगेष्वन्यतमेन वाग्योगनौदारिकवैक्रियिककाययोगयोरन्यतरेण काययोगेन त्रिषु वेदेष्वन्यतमेन वेदेनालीढो निरस्तसंक्लेशो हीयमानान्यतमकषायः साकारोपयोगो वर्द्धमानशुभपरिणामयोगेन सर्वप्रकृतीनां स्थिति हासयन्त्रशुभप्रकृतीनामनुभागबंधमपसारयन् शुभप्रकृतीनां रसं संवर्द्धयन् त्रीणि करणानि प्रत्येकमंतर्मुहूर्त्तकालानि कर्तुमुपक्रमते । तंत्रान्तःकोटीकोटीस्थितिकानि कर्माणि कृत्वा अथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च क्रमेण प्रविशति १ सम्यमिथ्यात्वसम्यक्प्रकृतिमिथ्यात्वं विना २ सत्ताकर्माणि यस्य ३ यदा चतुर्थात्प्रथमे आगच्छति तदा । सम्यक्त्वमोहनीयं मिथ्यात्वमोहनीयं च मिथ्यात्व एवान्तर्गर्भिते स्तः मिथ्यात्वत्रयं गोलकरूपं वर्तते ४ शुभपरिणामेन सन्मुखः ५ हीयमाना अन्यतमा अनंतानुबंधिनः कषाया यस्य ६ ज्ञानोपयोगः ७ भिन्नं कुर्वन् ८ करणे अन्तर्मुहूर्त्तकाले वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy