________________
ते भव्या भाणता जीवाः सिद्धियोग्या भवन्ति ये । विशुद्धेनियमस्तेषु सुवर्णाश्मस्विवास्ति नो ॥ २८३ ॥ संख्यातकमसंख्यातं कालं भ्रान्त्वाप्यनंतकम् ।। भव्याः सेत्स्यति नाभव्याः कदाचन शरीरिणः ।। २८४।। भव्याभव्यत्वनिमुक्ताः सर्वद्वन्द्ववहिर्भवाः । पवित्राष्टगुणेश्वर्याः सिद्धाः मंति निरामयाः ॥ २८५ ॥ पूर्णपंचेन्द्रियः संज्ञी लब्धकालादिलब्धिकः । सम्यक्त्वग्रहणे योग्यो भव्यो भवति शुद्धीः ।। २८६ ॥
भव्यः कर्माविष्टोऽर्द्धपुद्गलपरिवर्तपरिमाणकालेऽवशिष्टे प्रथमसम्यक्त्वयोग्यो भवतीति काललब्धिः । आदिशब्देन वेदनाभिभवजातिस्मरणजिनेन्द्रार्चादयो गृह्यन्ते । क्षायोपशमिकी लब्धि शौद्धी देशनिकी भवी । प्रायोगिकी समासद्य कुरुते करणत्रयम् ।। २८७ ॥
प्रागुपात्तकर्मपटलानुभागस्पर्द्धकानां शुद्धियोगेन प्रतिसमयानंतगुणहीनानामुदीरणा क्षायोपशमिकी लब्धिः ।
क्षयोपशमविशिष्टोदीर्णानुभागस्पर्द्धकप्रभवः परिणामः सातादिकर्मबन्धनिमित्तः सावद्यकर्मबन्धविरुद्धः शौद्धी लब्धिः ।
यथार्थतत्वोपदेशतदुपदेशकाचार्याग्रुपलब्धिरुपदिष्टार्थग्रहण धारणाविचारणाशक्तिर्वा देशनिकी लब्धिः ।
१ भव्येषु । २ यथा धातुपाषाणेषु स्वर्णत्वं व्यक्तं भवति, कापि न भवत्यपि, परं तेषु स्वर्णत्वमस्ति यदि साधनिका मिलति तदा व्यक्तं भवति नो चेन्न, तथा भव्येष्वपि विशुद्धेर्नियमो नास्ति । ३ जीवः । ४ उदयस्पर्द्धकानां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org