________________
(३५) निर्दयो निरनुक्रोशो मद्यमांसादिलंपटः ।। सर्वदा कंदनासक्तः कृष्णलेश्यो मतो जनः ॥ २७३ ॥ कोपी मानी मायी लोभी रागी द्वेषी मोही शोकी। हिंस्रः क्रूरचंडश्चौरो मूर्खः स्तब्धः स्पर्धाकारी ॥ २७४ ॥ निद्रालुः कामुको मंदैः कृत्याकृत्यविचारकः । महामूछों महारंभो नीललेश्यो निगद्यते ॥ २७५ ॥ शोकभीमत्सरासूयॉपरनिन्दापरायणः । प्रशंसति सदात्मानं स्तूयमानः प्रहृष्यति ॥ २७६ ॥ वृद्धिहानी न जानाति न मूढः स्वपरान्तरम् । अहंकारग्रहग्रस्तः समस्तां कुरुते क्रियाम् ॥ २७७ ॥ श्लाघिनो नितरां दत्ते रणे मर्तुमपीहते । परकीययशोध्वंसी युक्तः कापोतलेश्यया ।। २७८ ॥ सम्यग्दृष्टिरविद्विष्टो हिताहितविवेचकः । वेदान्यः सदयो दक्षस्तेजोलेश्यो महामनाः ॥२७९॥ शुचिर्दानरतो भद्रो विनीतात्मा प्रियंवदः । साधुपूजोद्यतः शान्तः पद्मलेश्योऽनघक्रियः ॥२८०॥ निर्निदानोऽनहंकारः पक्षपाताज्झितोऽशठः । रागद्वेषपराचीनः शुक्ललेश्यः स्थिराशयः ॥ २८१ ॥ निरस्तोभयलेश्याका नित्यसौख्यपरंपराः । संसारप्रक्रमातीताः सिद्धाः संति निरापदः ॥ २८२ ॥
१ पश्चात्तापरहितः । २ कुत्सितानमशनं तस्मिन्नासक्तः । ३ मूढः बुद्धिहीनो वा । ४ भयं । ५ ईर्षाकरणं । ६ अतिशयेन दानं ददातीति वदान्यः । ७ क ख पुस्तकयोः " महात्मनः" इतिपाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org