SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ (३२) मनः पर्ययविज्ञानं विशेषविषयं यतः । मतिपूर्वं श्रुतज्ञानं दर्शनं न ततस्तयोः ॥ २५२ ।। प्रवृत्तियौगिकी लेश्या कषायोदयरंजिता । भावतो द्रव्यतो देहच्छविः षोढोभयी मता ॥ २५३ ।। कृष्णा नीला च कापोती पीता पद्मा सिता स्मृता । लेश्या षड्भिः सदा ताभिह्यते कर्म जन्मिभिः ॥ २५४ ॥ पृथ्वीकायेषु सो पोढा शुक्ला तोयशरीरिषु । पीता पावककायेषु कापोती पवनांगिषु ॥ ५५ ॥ षोढा पादपकायेषु वादरेषु निवेदिताः । कापोती सूक्ष्मकायेषु सर्वापर्याप्तकेषु च ।। २५६ ॥ सर्वेषां जन्मिनां शुक्ला लेश्या वक्रगतौ स्मृता । शरीरं कार्मणं शुक्लं पीतं भवति तैजसम् ।। २५७ ॥ औदारिकं नृतिर्यक्षु सपलेश्यं कलेवरम् ।। पीता वैक्रियिके पमा शुक्ला लेश्या सुधाशिनाम् ॥ २५८ ।। मूलनिवर्त्तने पीता देवीनां तु कलेवरे । श्वाभ्राणां कथिता कृष्णा सा पोढोत्तरकालिकी ॥ २५९ ॥ षट्लेश्यांगा मतेऽन्येषां भौमज्योतिष्कभावनाः । गोमूत्रमुद्गकापोतवर्णाङ्गाः पवनांगिनः ॥ २६० ॥ इत्युक्ता द्रव्यलेश्या । भावलेश्योच्यते,-- १ द्रव्यलेश्या । २ विग्रहगतौ । ३ शरीरे देवीनां पीतलेश्या भवति चिकुर्वणाकाले बहुविधा द्रव्यतः । नारकिनां विकुर्वणाकाले सा कृष्णलेश्या षड्डिधा जायते परं स्वभावेन कृष्णालेश्या द्रव्यतो न तु भावतो भवति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy