________________
(३१) चारित्रमोहनीयस्य प्रशमे प्रक्षयेऽपि वा। संयमोऽस्ति यथाख्यातो जन्मारण्यदवानलः ।। २४३ ॥ चतुर्णा संयमावाद्यौ तृतीयोऽवादि पूर्वयोः । सूक्ष्मस्य सूक्ष्मलोभावश्चतुर्णा पंचमस्ततः ॥ २४४ ॥ प्रथमाष्टकषायाणामुदयप्रलये सति । यः सत्त्वोपशमे तेषामन्येषामुदये सति ॥ २४५ ॥ चतुःस्थावरविध्वंसी दशधाँ सरक्षकः । सम्पद्यते परीणामः संयमासंयमोऽस्ति सः ॥२४६॥ युग्मम् ।। अष्टौ स्पर्शा रसा पंच द्वौ गन्धौ वर्णपंचकं । षड्जादयः स्वराः सप्त दुर्मनोऽक्षेष्वसंयमाः ॥ २४७ ॥ इत्यष्टाविंशतिः सन्ति चतुर्दशशरीरिषु । तेषामरक्षका जीवा ज्ञेया दक्षैरसंयताः ।। २४८ ॥
इन्द्रियेष्वसंयमाः २८-जीवेषु १४ । रूपादीनां पदार्थानां सामान्यस्यावलोकनम् । चतुर्की दर्शनं ज्ञेयं जीवसामान्यलक्षणम् ॥ २४९ ॥ प्रकाशश्चक्षुषोर्थानां चक्षुर्दर्शनमिष्यते । शेषाणां पुनरक्षाणामचक्षुर्दर्शनं जिनैः ॥ २५० ॥ साक्षादूपिपदार्थानां सोऽवाद्यवधिदर्शनम् । मू मूर्तपदार्थानामसौ केवलदर्शनम् ॥ २५१ ॥
१ ख पुस्तके “ सत्तोपशमे” इतिपाठः । २ स्थावराणां चत्वारो जीवसमासाः, सूक्षवादरपर्याप्तापर्याप्तभेदेन । ३ अवशिष्टदशजीवसमासाः। ४ षड्ज मयूरो वदति, ऋषभं चातको वदेत् । अजा वदति गांधारं, Qचो वदति मध्यमं ॥ १ ॥ पुष्पसाधारणाकाले पंचम कोकिलो वदेत् । दर्दुरं ध्रुवकं चैव निषादं वदते गजः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org